________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८०
रोगभिषग्जितीयं विमानम्
-
चरक संहिता | ब्रूयात् तत् परीच्योत्तरं वाच्यं स्याद यथोक्तञ्च प्रतिवचन विधिमवेच्य सम्यक् । यदि तु न चैनं मोहयितुमिच्छेत् प्राप्तन्तु वचनकालं मन्येत काममस्मै व यादाप्तमेव निखिलेन ॥ ७१ ॥
द्विविधा तु खलु परीक्षा ज्ञानवतां प्रत्यचमनुमानञ्च । एतत् तु खलु द्वयमुपदेशश्च परीक्षा स्यात् एवमेषा द्विविधा परीक्षा, त्रिविधा वा सहोपदेशेन । दशविधन्तु परीच्यं, कारणादि यदुक्तमय,
एवं मोहवचनेनेोक्तः स मष्टा यदुत्तरं ब्रूयात् तदुत्तरं वाक्यं परीक्ष्य यथोक्तश्च प्रतिवचनविधिं प्रत्युत्तरप्रकारं सम्यगवेक्ष्य विविच्य उत्तरं वाच्यं स्याद भिषजा | यदीत्यादि - यदि तु भिपक् तथापूर्वं पृष्ट एनं प्रष्टारं मोहयितुं न चेच्छेत् । वचनकालमुत्तरवचनकालन्तु प्राप्तं यदि च मन्येत तदा काम यथाभिलपितं पृष्टार्थमाप्तमेवाप्तवचनमेवाखिलेन कृत्स्नेनास्मै प्रष्ट्र भिषजे वाप्य भिषजे ब्रूयात् स्पष्टम् ॥ ७१ ॥
गङ्गाधरः- तत्रोक्त प्रश्नस्योत्तरमाप्तमेव निखिलेन दर्शयितुमाह-द्विविधे त्यादि । कतिविधया परीक्षया कतिविधं परीक्ष्यमित्यन्तर्गततया भाषितं कतिविधा परीक्षेत्येतं प्रश्नमुत्तरयति -- द्विविधातु खलु परीक्षा । ननु किं दैविव्यमित्यत आह- ज्ञानवनामित्यादि । ज्ञानत्रतामाप्तोपदेशेन वस्तुषु ज्ञानवतां प्रत्यक्षमनुमानं वा । कस्यचित् प्रत्यक्षं कस्यचिदनुमानमुपमानादीनामनयोरन्तर्भावात् । तदर्शितं तिस्रपणीये । ननु अज्ञानवतां कतिधा परीक्षेत्यत आह-- एतत् खित्यादि । एतत् तु द्वयमिति प्रत्यक्षमनुमानमुपदेशञ्च इति परीक्षात्रयम् । एवमनेन प्रकारेण एपा द्विविधा परीक्षा सहोपदेशेन त्रिविधा
भावः । परीक्ष्यस्यार्थे भवतः श्रोतुमभिलपितमन्यथा आचक्षाण इति योजना । तत् समीक्ष्येति तद वचनं समीक्ष्य दौपाधिकं भवति, तद् यथोक्तं प्रतिवचनमित्यत्रैवाध्याये विगृह्यसम्भापाविधायुक्तम् । अवेक्ष्योत्तरं वाक्यं पक्षान्तरवाक्यम् | पक्षान्तरमाह - सम्यगित्यादि । सम्यग् यदि तु यादिति यदि सन्धाय सम्भाषां यात । प्राप्तमित्युचितम्, अनुचिते तु वचनकाले सन्ध्यादी न वक्तव्यमेव । आप्तमेवेति यथार्थमेवेत्यर्थः ॥ ७५ ॥
।
चक्रपाणि: - तदेव यथार्थमुत्तरं पूर्वश्लेषेण यथाक्रमेणाह - द्विविधेत्यादि । ज्ञानचतामित्याप्तोपदेशरूपशास्त्रजनितज्ञानवताम् । पक्षान्तरं परीक्षा त्रैविध्यमाह - एतद्वीत्यादि । सतह परीक्षाया हैविध्यं त्रैविध्यन्न त्रिविधरोग विशेषविज्ञानीय एष व्याख्यातम् ।
For Private and Personal Use Only