________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६७६
चरक-संहिता। रोगभिषजितीय विमानम् कार्याणामभिनिवर्तकमित्यतस्तृपायः। कृते नोपायार्थोऽस्ति, न च विद्यते तदात्वे, कृताच्चोत्तरकालं फलम्, फलाचानुबन्ध इति । कार्यादिकं नाभिनिव्वत्तयति। धातुवैषम्यस्य सौष्ठवमदारुणवादिकं तदभिसन्धानञ्च। सुखसाध्यखेन व्याधेः प्रशमने कर्तव्ये तथावेनाभिसन्धानमुपायः, नच्च भिषगादीनामभिसन्धानं भिषजा कार्य न कार्ययोनेः। चिकित्सायान्तु भिषजां कार्यस्य धातुसाम्यस्य योनिहतुसाम्यं तस्य सौष्ठवं तदभिसन्धानश्च । तदव्याधेहेतु विपरीतसेवनम्, स्वस्थवृत्तसेवनश्च धातुसाम्यादिकमभिनिवत्तयति। इति काय॑स्य धातुसाम्यस्य सौष्ठवं विकारप्रशान्त्यादि। कार्यफलस्य सुखावाप्तेः सौष्ठवं मनोबुद्धयादितुष्टिः। अनुबन्धस्यायुपः सौष्ठवं प्राणसंयोग इत्यतोऽप्युपायः । अनुबन्धस्यायुषः सौष्ठवमभिसन्धानश्च। चिरव्याधेश्विरचिकित्सया शान्तिं नि त्यतीत्यायुषः सौष्ठवमभिसन्धानश्चोपायः। एवं देशकालक्रियाणां सौष्ठवं तदभिसन्धानश्च सुखेनारोग्यमभिनिर्वत्यतीत्युपायः । उपायानामपि सौष्ठवमभिसन्धानचारोग्यसुखमभिनिव्वत्तयति। न चोपायसौष्टवस्योपायखेन तत्सौष्ठवरूपस्योपायस्यापि सौष्ठवमुपायः स्यात्। तथा तत्सौष्ठवमप्युपायः स्यादित्येवमनवस्थानं वाच्यम् । सर्वत्र सौपायसौष्ठवस्यानुपायखात्। यथासम्भवं हि कारणादीनां सौष्ठवाभिसन्धानयोरुपायखमिति ने यम् । ननु उपायविषयः क इत्यत आह-कृत इत्यादि । कृते निष्पादिते सति नोपायार्थ उपायस्य प्रयोजनं नास्ति। ननु तदाखे क उपायोऽस्तीत्यत आह-न च विद्यते तदाले इति। तदाखे तक्रियानिष्पत्त्यत्ययकाले तु नोपायाथों विद्यते। निष्पद्यते हि क्रिया तदुपायपूचकमेव । ननु कृते सति कुतो नोपायार्थीऽस्ति ? कृतादुत्तरकालं फलमभिनित्तं भवति, वर्तते चानुबन्धद्वयमुपायार्थी हि दृश्यते सिद्ध इत्यत आह-कृताच्चोत्तरकालमित्यादि। कृताच्चोत्तरकालं फलञ्चानुबन्धश्चोपायार्थी विद्यते। कार्यकार्यफलानुवन्धवर्जानां कारणादीनां त्रयाणां कार्याभिनिव्वर्तकभावो हापायः, कार्यफलानुबन्धाभिनिवर्तकानि कारणादीनि न तूपाय इति। ननु कार्यफलानुवन्धयोः सौष्ठवमभिसन्धानश्च
नाच कारणादीनां ज्ञेयमित्याह-कार्यत्यादि। उपायस्य स्वरूपान्तरमाह-कार्याणामभिनिवर्तक इत्यतस्तूपाय इति । असत्युपाये कारणादीनि कार्य न कुन्तीत्यर्थः । अथ कथं कार्यादिषु उपायस्वं न सम्भवतीत्याह-कृत इत्यादि। उपायो हि कायंकारकः, तत्र कृते कार्य उत्पन्ने नोपायार्थी
For Private and Personal Use Only