SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः विमानस्थानम् । १६७५ उपायः पुनस्त्रयाणां कारणादीनां सौष्ठवमभिसन्धानश्च ॐ सम्यक कार्यकार्यफलानुबन्धोपायर्जानां तेषां। तद्धि कार्यमुक्तम् । सैव क्रियेति भावकृदन्तखात् करणम्, कम्मे ति च भावकृदन्तखात्। उक्तश्च पूर्वाध्याये संयोगे च विभागे चेत्यादिना। यन इति यतनं न प्रयनः। स इच्छासमयोगान्मनस्यात्मप्रत्तिरूपः, तस्य समयोगात् तु वाङ्मनःशरीरपत्तिरूपोऽयं यत्नः। अतएवोक्तं पूर्वाध्याये। प्रयत्नादि कर्म चेष्टितमुच्यते इति। कार्यसमारम्भश्चेति कार्याणां समारम्भः । गौतमेनाप्युक्तम्। प्रवृत्तिर्वागबुद्धिशरीरारम्भः इति । व्याख्यातञ्चेदम् । __ क्रमिकवादुपागं लक्षयति--उपायः पुनरित्यादि। कारणादीनां कारणकरणकार्ययोनीनां सौप्उवं सुष्टुवं साधुखमित्यर्थः। तेषामभिसन्धानश्च । ननु कुन एतद्वयमुपाय उच्यते इत्यत आह---काय्येत्यादि। कारणादीनां कार्यकारयेफलानुवन्धोपायवर्जानां सौष्ठवं सम्यगभिसन्धानश्च । कार्याणां धातुसाम्यानां सम्यगभिनिवर्तक इत्यतोऽपि। कार्यस्य सम्यगभिनिवर्त्तकखादुपाय उच्यते। कारणं हि भिषग धातुसाम्यं काय्येमभिनिव्वत्यति न सव्यें। यस्य तु सौष्ठवं स्वगुणसम्पत्तिर्नास्ति स कथं व्याधि सम्यक् प्रशमयेत्। इति भिपजः सौष्ठवमुपायः। एवंसम्पदुपेतो भिषम् यद्यभिसन्धानं न कुरुते व्याधिप्रशमनाय, तत् कथं सुष्ठ वैद्योऽपि धातुसाम्यं कुर्यादिति भिपजस्तत्तत्कर्मकरणेऽभिसन्धानमुपायः। करणन्तु भेषनं शस्त्रादिकम् । तच्च कार्य कार्यफल मनुबन्धश्च। धातुसाम्यं सुखावाप्ति जीवितश्च निवर्तयति। यदि तु तत् सौष्ठवं स्वगुणसम्पत्तिने वर्तते तदा कथमातुरस्यालेशपूर्वकं धातुसाम्यादिकं कुर्यात्। यथा शस्त्रस्य सुधारखाभावे च्छेदनमुखाभावः सुधारखे च्छेदनमुखमित्येवमादि। एवं भेषजानामभिसन्धानं बोध्यम्। वातादिवैषम्पाणां कार्याणां योनिश्चायोगातियोगमिथ्यायोगयुक्तकदादिः, ज्वरादीनां कार्याणां योनिर्धातुवैषम्यम्, धातुसाम्यादि उपायमाह-उपायः पुनरित्यादि। सौष्ठवमिति सुष्ठुत्वं कर्तादीनां कार्यानुगुणयोगित्वमित्यर्थः । अभिविधानञ्च सम्यगिति कारणादीनां कार्यानुगुण्येनावस्थानम्, यथा--भेषजस्य शिरोविरेचनकारकस्य, तस्य पुनर्नसि च दानं कस्यचित्, कस्यचित् पुनः शिरसि च दानमित्यादि, यथा च-पटकारणानां तन्त्वादीनां पटवापनयोग्यतयावस्थानम् । एतच्चोपायरूपं सौष्ठवमभिविधानञ्च कार्यादित्रिकरहिता. • अभिविधान चेति चक्रः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy