________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६७४
चरक-संहिता। (रोगभिषगजितीयं विमानम् अनुबन्धः खलु सः, यः करिमवश्यमनुबध्नाति कार्यादुत्तरकालं कार्यनिमित्तः शुभो वाप्यशुभो वा भावः ।
देशस्त्वधिष्ठानम् । कालः पुनः परिणामः।
प्रवृत्तिस्तु खलु चेष्टा कार्यार्था, सैव क्रिया कर्म यत्नः कार्यसमारम्भश्च।
तथा च कः पुनरनुवन्ध इत्यत आह-अनुबन्धः खल्वित्यादि। दृष्टाथकम्मेणः कार्यस्य फलमिह लोके भोग्यमनुबन्धश्चेह लोके भोग्यः, अदृष्टार्थकर्मणस्तु कार्यस्य फलं परलोके भोगावसानमनुबन्धस्तु जन्मान्तरभोग्यः । अथ वैद्यानां व्यारत्त्यर्थमृतिगादीनाश्च व्यायत्त्यर्थ कर्तारमिति पदम् । व्यभिचारमतिषेधार्थमवश्यमिति पदम्। कार्यादुत्तरकालमित्यनेनावैगुण्येन समाप्तस्य काय्यस्येत्यर्थात्। व्यभिचारिकारणं व्यवच्छिन्नम् । अवलीयांसो निदानादयो यदि परस्परमप्रकर्षादनुवनन्ति न तदा विकाराभिनि→ त्तिः भवतोत्युक्तेः। काय्येनिमित्त इत्यनेन कार्यजन्यो फलानुबन्धाविति शापितम्, न तु फलजन्योऽनुबन्ध इति। ..
देशं निरूपयति-देशस्वित्यादि। अधिष्ठानमिति । अधितिष्ठत्यस्मिन् इत्यर्थेऽधिष्ठीयते यत् तद धिष्ठानं स देशः कर्मणि ल्युट्। स चातुर आतुरशरीरप्रदेशमनोरूपः । भूमिश्च । सा चानू पजाङ्गलसाधारणभेदात् त्रिधा। .. ___ क्रमिक कालमाह-कालः पुनः परिणामः। परिणामो व्याख्यातस्तिस्रपणीये।
क्रमिकलात् प्रत्तिं लक्षयति -प्रवृत्तिरित्यादि। चेष्टेति वाङ्मनःशरीराणां प्रवर्तनम्। कार्यार्थति कार्यमर्थः फलं यस्याः सा कार्यार्था । कार्यफलं ज्ञेयम्, यथा--कुम्भकारस्य घटकरणे तन्मूल्यप्राप्तिः। अनुबन्धस्त्वायतीयं फलम् , यथा-घटमूल्येन विनियोगः कुटुम्बपोपणादौ। अनुबनातीत्युत्तरकालं कर्तारमुपतिष्ठते शुभो वाप्यशुभो वेति, शुभस्य कार्यस्य शुभः, अशुभस्य कार्य्यस्याशुभः।
देशस्त्वधिष्टानमिति कार्यानुगुणोऽननुगुणो वा आधाररूपो देशः। परिणाम इति परिणामी ऋत्वादिरूपः कालः। तेनं नित्यगं कालं निरस्यति, अस्य पूर्वमसाधारणं कार्य प्रत्यनपेक्षणीयस्वान। प्रवृत्तेश्चेष्टादिशब्दाः पर्याया एव लक्षणम् ।
For Private and Personal Use Only