________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१६७३ भिव्यक्ता नियतिदेवसंक्षकदिष्टरूपेणाभिनिवर्त्तते शरीर इति नानुपादानो धर्माधाविति। ननु तर्हि कार्य्यस्य धातुसाम्यस्य फलं सुखावाप्तिरारोग्यम्, धातुवैषम्यस्य फलं दुःखावाप्तिरनारोग्यं विकारः। तदुक्तं प्राक् । विकारो धातुवैषम्यं साम्यं प्रकृतिरुच्यते। सुखसंशकमारोग्यं विकारो दुःखमेव तु । इति। एवं वैधकर्मजकार्यस्य धर्मस्य फलं स्वर्गादिसुखावाप्तिः। अवैधकम्मे नकार्य्यस्याधम्मस्य फलं दुःखावाप्तिः। कथं तर्हि धर्माधर्मकृतपुत्रादिधनवान्धवादैश्वर्यानैश्वर्य शोकादिलाभः स्यादिति। तत्राहानुबन्धस्वित्यादि। यो भावः कार्यानिमित्त एव कार्यवशात् कार्यादुत्तरकालम् अवश्यम्भावितया तत्कार्यस्य कतारमनुवनाति शुभो वाप्यशुभो वा सोऽनुवन्धः । उदाहरिप्यते । अनुवन्धस्तु खल्वायुरिति । धातुसाम्यस्य कार्यस्य फलं मुखावाप्तिस्तकलानुबन्धस्तधातुसाम्यनिमित्तमेव धातुसाम्यादुत्तरकालम् अवश्यम्भावितया तं पुरुष दीर्घायुरनुवनाति। तथा धातुवैषम्यस्य कार्यस्य फलं दुःखावाप्तिस्तत्फलानुबन्धस्तु तद्धातुवैषम्यनिमित्तमेव धातुवैषम्यात् उत्तरकालमवश्यम्भावितया तं पुरुषमयथावदायुरनुवन्नातीत्यनुवन्ध आयुः शुभं दीर्घ सुखञ्च। अशुभमयथावत्प्रमाणमायुर्दु खञ्चेति । तथेह कृतकर्माजनितधर्माधम्मस्य कार्यस्य फलं परलोके सुखदुःखावाप्तिस्तदुत्तरकालमवश्यम्भावितया तद्वधिम्मेनिमित्तानि शुभपुत्रदारादैश्वर्याद्यशुभपुत्रदाराधनैश्वर्यादीनि भवन्त्यनुबन्धा इति। एतदुक्तं गौतमेन। आश्रय व्यतिरेका वृक्षालयदिति दृष्टान्तोऽहेतुरिति प्रतिषधो न भवति प्रीतेरात्माश्रयलादिति यदुक्तं तत्। न पुत्रशास्त्रीपरिच्छदहिरण्यानादिकलनिर्देशादिति । स्वर्गादिप्रीनिवत् पुत्रादिकामनया यागादिकरणे स्वर्गादिवत् फलनिर्देशान आश्रयवाभावात् फलस्य तन्न युक्तमिति। तत्राह सिद्धान्तम् । तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचार इति । पुत्रादिसम्बन्धात् फलं प्रीत्यमीतिलक्षणमुत्पद्यते ततः पुत्रादिषु फलवदुपचारः। यथान्ने प्राणशब्दोऽन्नं वै प्राणा इति। तद्धर्माधर्मनिमित्तमेव प्रवरावरमध्यजातिकुलादिषु पुनर्जन्म सदसत्पुत्रशबुदारादोश्वर्यानश्वर्यादिकलाभादिकश्च फलवदुपचारः फलानुवन्ध उक्तः। पूव्वेकृतफलानुबन्धात् तदुत्पत्तिरिति-पूर्वकृतधर्माधर्म निमित्तात् तत्फलसुखदुःखयोरनुबन्धान तदुत्पत्तिरित्यनुवन्ध एव पुत्रादिफलमुच्यते इति।
२१.
For Private and Personal Use Only