SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६७२ चरक-संहिता। रोगभिषगजितीयं विमानम् इति तस्यादुपादानभूतं किमप्यस्ति प्रागुत्पत्तेः कार्य्यस्योत्पादव्ययदर्शनात् । तहि तत् किं सदित्यत उक्तं-बुद्धिसिद्धन्तु तदसदिति। इदमस्योत्पत्तये समर्थ न सापति प्राशुत्पत्तेनियतकारणं काय्यं बुद्धया सिद्धमुत्पत्तिनियमदर्शनात् । तस्मादुपादाननियमस्योपपत्तिः। तस्मादुपादानं यद् यस्य तत् प्राक् कायोत्पत्तेः स्वेन रूपेण सदपि कार्यरूपेणासदिति भाष्यते तत्तत्कार्योयक्रियागुणव्यपदेशाभावात्। यथा मृदेव घटो भवति प्राग् घटोत्पत्तेघंटीयक्रियागुणव्यपदेशाभावान्मृदः। सती च मृन्मुद्रूपेण घटरूपेणासदिति । तच्च धर्माधर्मरूपेण वेदा एव नियतिबंधावधकम्मभिनिष्पद्यते। भाग्यं हि तस्मानियतिरुच्यते। इति। तत्राह वादी। आश्रयव्यतिरेका वृक्षफलोत्पत्तिवदित्यहेतुः इति। वृक्षस्य मूलसेकादिपरिकर्म तज्जातश्च रसरूपद्रव्यं तत्काय्यफलं पत्रादिकमित्युभयमेव वृक्षाश्रयम् । कम्मै चेह शरीरे फलश्च स्वर्गादिकममुत्रेत्याश्रयस्य व्यतिरेकाद भेदादहेतु दृष्टान्त इति । तत्राह सिद्धान्तम्। प्रीतेरात्माश्रयत्वादप्रतिषेध इति। प्रीतिरात्मप्रत्यक्षवाद आत्माश्रया तदाश्रयमेव कर्मा धर्माधर्मसंज्ञकं धमाधम॑स्यात्मगुणवात् तस्मादाश्रयव्यतिरेकानुपपत्तिरिति। अत्रेदं प्रतिसन्धेयं यदिहात्माश्रया प्रीतिरुक्ता तदात्माश्रयमेव कर्म धर्माधर्मसंशितमुक्तं स खल्वात्मा न खलु केवलः क्षेत्रः क्षेत्रशाधिष्ठितमव्यक्तं वा महदुपाहितं प्रज्ञाख्यं सुषुप्तिस्थानं वा स्वमस्थानं वा सूक्ष्मपञ्चमहाभूतोपाहितस्तैजसाख्यः। स्थूलपञ्चभूतोपाहितो वा वैश्वानराख्यः। दृहदारण्यके च्छान्दोग्योपनिषदि च खल्विष्टापूर्तादिकम्मे कृत. वतो मृतस्य शरीरादिष्टपुरुषस्य भास्वररूपेणोत्थाय धूमादिक्रमेण सोमलोके सोमभावापन्नखश्रुतेः शरीराश्रयखाद्धर्माधर्मस्य । तस्मादात्मानमयः स्थूलपुरुप इष्यते। प्रीतिश्च स्थूलपुरुष धर्माधर्मरूपं कर्म च स्थूलपुरुष । मुक्ष्मशरीरी हि पुरुषो म्रियमाणो देहान्तरमातिवाहिकमादाय शरीरमिदं त्यक्त्वा परलोकं गच्छति। तदुक्तं शारीरे। मूक्ष्मश्चतभिः सहितः स आत्मा मनोजवो देहमुपति देहादिति। ततः पूर्वदेहवदेहं प्राप्य तथैव स्थूलदेही भूखा परलोके सुखं वा दुःखं वा भुङक्त। तत्रास्ति सोमलोकस्थस्य दिष्टस्य सम्बन्धप्रवाहः ज्योतिवत् । पुत्रादिषु सम्बन्धवत् । स्थूले हि पुरुषे सर्व प्रतिष्ठितमुक्तमग्रे। शक्तिब्रह्म गायत्रीरूपेण तथा परमपुरुषः परमात्मा पञ्च ब्रह्मपुरुषा विद्या विद्यारूपेण धर्माधर्मरूपेण परिणामिनियतिरूपेण कालश्च परिणामरूपेण क्षेत्रज्ञाव्यक्त्यादिपञ्चविंशतिस्तत्त्वानि च सर्वमतो वैधावधकर्मणा सैव शरीरस्थान For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy