SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः विमानस्थानम् । १६७१ अन्तरेणोत्पत्तुमर्ह ति। न खलु वै विनष्टात् कारणात् किञ्चिदुत्पयत इति । तत्रोत्तरम् । पानिष्पत्तेट क्षफलवत् तत् स्यात्। यथा फलार्थिना वृक्षमूले सेवादिपरिकर्म क्रियते, तस्मिंश्च प्रध्वस्ते पृथिवीधातुरब्धातुना संगृहीत आभ्यन्तरेण तेजसा पच्यमानो रसद्रव्य निवत्यति। स द्रव्यभूतो रसो शक्षानुगतः पाकविशिष्टो व्यूह विशेषण सन्निविशमानः पर्णादिकले निवर्त्तयति । एवं परिपेकादिकर्म चार्थवत्। न च विनष्टात् फलनिष्पत्तिः। तथा प्रवृत्त्या संस्कारो धर्माधर्मलक्षणो जन्यते। स जातो निमित्तान्तरानुसंगृहीतः कालान्तरे फलं मुखदुःखं निष्पादयतीति । उक्तञ्चैतत् पूर्वकृतफलानुबन्धात् तदुत्पत्तिरिति। तथा च पचतोत्यादौ व्यापाररूपपाकेश विक्लित्तिमानोदनः फलं निष्पाद्यते तत्रौदनस्थविक्त दः फलरूपः पाकः पाककाय्यः। तथा यागादौ ततदितिकत्र्तव्यतारूपव्यापारेण जन्यते परमपुरुषाराधनं स्वेष्ट फलसाधिनी सिद्धिः पुरुपदेह संस्कारविशेषो धम्मो वैधक्रियाकलं कार्याख्य धावर्थः फलमवैधक्रियाफलमपि परमपुरुषानाराधनमनिष्टसाधिनी सिद्धिः पुरुषदेह संस्कारविशेष एवाधर्मः कार्याख्यं धालर्थः फलमिति तद्वर्त्तत एव विक्लित्तिवदोदने यजमानदेहे। तत्कलरूपं कायं कालान्तरे सुखदुःखं प्रकृतं फलं परलोके जनयति। यथा खल्बोदनस्था विक्लितिरोदनभोक्तुस्तृप्तिं जनयति सुखरूपाम् । एवमुक्तं पुष्पदन्तेन-क कर्म प्रवस्तं फलति पुरुषाराधनमृते इति पुरुषाराधनमेव स्वर्गादिसुखासुखं फलति न तु प्रवस्तं कर्मति। अत्र जिज्ञास्यम् । तदिदं धम्माधर्माख्यं फलं प्रानिष्पत्ते निष्पद्यमानं किमसदेव निष्पद्यतेऽथ प्राक् सत् ? तदेव निष्पयतेऽथवा प्राक् सदसत् । तदेव निष्पद्यते प्रवृत्तित इत्यत उक्तं गौतमेन। नासन्न सन्न सदसत् सदसतोवैधादिति । प्राङनिष्पत्तनिष्पत्तिधर्मकं धर्माधर्मरूपेण यत्तन्नासत ; उपादाननियमात् । कस्यचिदप्युत्पत्तये किञ्चिदेवोपादेयं नानुपादाय किश्चित्। न वा सर्च सर्वस्येति । प्रागसद्भावे नियमो नोपपद्यते। न हुापादानमनुपमृद्य प्रादुर्भावः कस्यचिद्भवति। तहिं किं सत् ? न सत्, प्रागुत्पत्तेविद्यमानस्योत्पत्तिः अनुपपन्ना। तद्धास्त्येवेति । तहि प्रागुत्पत्तेः सदसत् ? न सदसत्, सदसतोवैधात्। सदित्यर्थाभ्यनुज्ञा। असदित्यर्थप्रतिषेधः। एतयोाघातो वैधम्यं यदस्ति तन्नास्तीति विभिन्नधर्म तस्माद्वयाघातादव्यतिरेकानुपपत्तिरेकभावासम्भव इति। तहि किमित्यत आह-उत्पादव्ययदर्शनादबुद्धिसिद्धन्तु तदसत। इति । यत् खलूक्तं प्रागुत्पत्तेः कार्य नासदुपादाननियमात् For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy