________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६७०
चरक-संहिता। रोगभिपग्जितीयं विमानम् श्रद्धां दयामस्पृहाञ्चाशुभे कुव्वत् सदवृत्ते पुरुषं प्रवर्त्तयति। वाक् च प्रवर्त्तमाना समयोगात् सत्यं हितं प्रियं स्वाध्यायश्च कुवैती तथाविधं वाक्यं प्रवत्तयति वक्तुपुरुषमिति। शरीरञ्च तया समयोगयुक्तया प्रवत्तैमानं दानं परित्राणं तीथादिपरिचरणादिकं करोति । इत्येवं वाङ्मनःशरीरप्रवृत्तिभिर्यजनयाजनादिभिः सदवृत्तकम्मभिर्धातुसाम्यमुत्पद्यते धर्मश्च। सत्त्वानुबन्धमन्तरेण या बुद्धिस्तामसी राजसी वा भवति सा मिथ्याबुद्धिरतत्त्वज्ञानं अतस्मिंस्तदबुद्धिः। स्थाणौ पुरुषः शुक्तौ रजतं रज्ज्वां सर्प इत्येवमादिस्तया बुद्धया मिथ्यायोगायोगातियोगयुक्तया वाङ्मनःशरीराणि मिथ्यायोगायोगातियोगैः प्रवर्तन्ते काय्यषु। ततस्तु मनः परद्रोह परद्रव्याभिलाषं नास्तिक्यञ्च एक्मादीनि कार्याणि करोति । वाक् च परुपानृतसूचनासम्बन्धवचनादीनि करोति । शरीरं हिंसास्तेयप्रतिपिद्धमैथुनादीनि करोति इत्येवमसत्तकर्मभिर्धातुवैषम्यमधर्मश्चोत्पद्यते। तदिदं शुभश्च धातुसाम्यं पुण्यश्च अशुभं पुनर्धातवैपम्यं पापञ्चेति द्विविधं द्वयमभिसन्धाय कत्तां तदभिनित्तये वाङ्मनःशरीरैः प्रवर्तत इत्यस्मात् कायं तदुभयं द्विविधमुच्यते। एतद्वयं द्विविधं प्रवृत्तिरूपक्रियानिष्पन्नयज्ञादि काव्यजातधर्माधर्मजनितं फलमुवाच गौतमः। प्रत्तिदोषजनितोऽथेः फल मिति । इह तु तत् कार्यमुच्यते। तत् तु वाङ्मनःशरीरप्रतिनिमित्तं शुभञ्चाशुभञ्च कम्मै द्विविधं-सद्यःफलं कालान्तरफलञ्च । तत्र सद्यःफलं शुभं पानाशनं क्षुत्पिपासाहरं स्वस्थस्य धातुसाम्यकरं परिणामेन, न तत् कालान्तरमुच्यते । अशुभन्तु शस्त्रास्त्राद्यभिघातादिकं कम्मे सद्यःफलं धात्वैपम्यकरं सद्य एव धातुवैषम्यं भवतीति। तथा यागादिकं प्रतिनिमित्तं कर्म शुभ कालान्तरेण धर्म फलति । दुष्प्रवृत्तिनिमित्तं नित्यने मित्तिककाम्यक्रियात्यागादवैधकम्मे कालान्तरेण पापं फलतीति व्यवस्थितौ । गौतम उवाच। सद्यः कालान्तरे च फलनिष्पत्तेः संशयः। पचति दोग्धीति साफले ओदनपयसी। कर्षति वपतीति कालान्तरफलं शरयाधिगम इति। अस्ति चेयं क्रिया अग्निहोत्रं जुहुयात् स्वर्गकाम इति । एतस्याः फले संशयः। किं सद्यः फलति कालान्तरे वेति ? तत्रोत्तरम् । न सद्यः, कालान्तरोपभोग्यत्वात् । अग्निहोत्रादिकार्य न सद्यः फलति, कालान्तरोपभोग्यत्वात् । स्वर्गः फलं श्रूयते, तच्चालिन् देहे भिन्ने देहभेदादुत्पद्यते इति, न सद्यः फलति । ग्रामादिकामानामारम्भफलमिवेति। तत्राह वादी। कालान्तरेणानिष्पत्तिहेतुनाशात् । ध्वस्तायां प्रवृत्तौ प्रत्तेः फलं न कारणम्
For Private and Personal Use Only