________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः ]
विमानस्थानम् ।
१६६६
विचिकित्सा मानः प्रमाद इति त्रैराश्यानोपसङ्ख्यायन्ते । लक्षणस्य तत्रभेदात् त्रिखमनुपपन्नं नानुपपन्नं रागद्र पमोहार्थान्तरभावात् । आसक्तिलक्षणो रागः, अमर्षलक्षणो द्वेषः, मिथ्याप्रवृत्तिलक्षणो मोह इत्यर्थान्तरत्वात् । यत्र राग मोहास्तत्र कामादय उपनिपतन्ति तस्मान्नोपसंयायन्ते ।
तत्राह वादी । नैकप्रत्यनीकभावात् । न खल्वर्थान्तरं रागादिकम् । कस्मात् १ एकप्रत्यनीकभावात् । तत्त्वज्ञानं सम्यङ्मतिराय्यमज्ञा सम्बोध इत्येकमिदं त्रयाणां प्रत्यनीकं स्यात् । तत्रोत्तरम् । व्यभिचारादहेतुः । सति ह्यर्थान्तरभावे पृथिव्यां श्यामलोहितादय एकप्रत्यनीका एकेनैवाग्निसंयोगेन रूपकयोनयः पाकजा इति व्यभिचारदर्शनादेकप्रत्यनीकभावादित्यहेतुः । तेषां मोहः पापीयान् नानूढस्येतरोत्पत्तेरिति । मोहः पापः पापतरो वेति द्वावभिप्रेत्य पापीयानित्युक्तम् । कस्मात् ? नामूढस्येतरोत्पत्तेः । अमूढस्य रागद्वेषौ नोत्पदे । मूढस्य यथासङ्करूपं तयोस्त्पत्तिः । विषयेषु रञ्जनीयाः सङ्कल्पा रागहेतवः । कोपनीयाः सङ्कल्पा हो पहेतवः । उभये च सङ्कल्पा न मिथ्याप्रतिपत्तिलक्षणवान्मोहादन्ये । ताविमौ मोहयोनी रागद्वे पाविति । तत्वशनाच्च मोहनिवृत्तौ रागद्वे पादुत्पत्तिरित्येकमत्यनीकभावानुपपत्तिः । एवं कृत्वा तत्त्वज्ञानाद् दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदन्तरापायादपवर्ग इति गौतमेनोक्तं व्याख्यातमिति । प्राप्तस्तहि निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्य इति । अन्यच्च निमित्तम् अन्यच्च नैमित्तिकमिति दोषनिमित्तत्वाददोषो मोह इति प्राप्यते । न दोपलक्षणावरोधान्मोहस्य | प्रवर्त्तनालक्षणा दोषा इत्यनेन दोपलक्षणेनावरुध्यते दोषेषु मोहः । मृन्निमित्तो घटो मार्त्तिके मृदेवेतिवत् तस्मान्नादोषो मोह इति । निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः । द्रव्याणां गुणानां वा अनेकविधविकल्पो निमित्तनैमित्तिकभावे तुल्यजातीयानां दृष्ट इति । तत्र तत्त्वज्ञानं तस्मिंस्तज्ज्ञानम् । तच्च द्विविधं सत्यं सत्यानृतञ्च । तत्र सत्यं सव्वं सदनुप्रविष्टत्वात् सत्यमपि तदेकं सदेव सत् सव्वैमिदमसदिति ज्ञानं सत्यं तत्त्वज्ञानम् । अव्यक्ताख्यात्मादेतदन्तं प्रमेयं सर्व्वं सत्यञ्चानृतञ्चेति सत्यानृतं तत्त्वज्ञानम् अपि मिथ्याज्ञानं चरमफले मिथ्यात्वात्। आत्मन्यात्मबुद्धिर्घटे घटबुद्धिरित्येवमादिबुद्धिस्तत्त्वबुद्धिलोके न तु परमार्थतः । एतल्लोकविषये तत्त्वज्ञानस्य कारणं रजोऽनुबन्धं सत्त्वम् । तथाविधा बुद्धिर्विषये समयोगेन प्रवर्त्तयति मनः शरीरं वाचञ्च । तया लौकिकतत्त्वबुद्धया प्रवर्त्तमानं मनः समयोगात्
I
For Private and Personal Use Only