________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६८
[ रोगभिषगजितीयं विमानम्
-
,
चरक संहिता | कार्य्यफलं पुनस्तद् यत्प्रयोजनकार्य्याभिनिव्वॄ त्तिरिष्यते । क्रमिकखात् काय्र्य फलमाह - काय्यफलमित्यादि । यत्प्रयोजन काय्र्याभि निष्ट तिः । यत् प्रयोजनं यस्य तत् यत्प्रयोजनम् । यत् प्रयोजनञ्च तत् काय्र्यञ्चेति, यत्प्रयोजनकार्यं तस्याभिनिवृत्तिः यत्प्रयोजन कायभि निष्ट तिरिष्यते कर्त्रा तत्प्रयोजनन्तु तत् काय्ये फलम् । प्रयोजनन्तु स्वयमुक्तमग्रे । यथा काय धातुसाम्यं तस्य फलं सुखावाप्तिः प्रयोजनम् । एतदुदाहरणप्रदर्शनमात्र न तु कृत्स्नफलनिर्देशः । तेन शुभकार्य बुद्धयादिसमयोगनिमित्तसमप्रवृत्तिजनितं धातुसाम्यं धम्मेञ्च शुभम् एवमशुभका बुद्धादिविषमयोगनिमित्तविषमप्रवृत्तिजनितं धातुवैषम्यमधर्म्मञ्चाशुभमिति । प्रयोजनन्तु तयोः फलं सुखदुःखावाप्तिः । उक्तञ्च गौतमेन । प्रवृत्तिदोषजनितोऽर्थः फलमिति । सुखदुःखसंवेदनं फलं सुखविपार्क कम्मे दुःखविपाकञ्च कर्म्म । तत् पुनदेहे न्द्रियविषयबुद्धिषु सतीषु भवति ततो देहादिभिः सहानुबद्धं फलं भवति । तथा हि प्रवृत्तिदोषजनितोऽर्थः फलमेतत् सर्व्व भवति । तदेतत् फलमुपात्तं देय' त्यक्तमुपादेयमिति । नास्याहानोपादानयोनिष्ठापय्र्यवसानं वास्ति । न खल्वयं फलस्य हानोपादानस्रोतसो ह्यन्ते लोकोऽस्ति । तदात्वेऽपवर्गप्राप्तेरिति । तदेतत् सुखदुःखं दुःखसंशयैव मन्यमान आह-बाधनालक्षणं दुःखमिति । बाधना पीड़ा ताप इति । तयानुविद्धमनुषक्तमविनिर्भागेण वर्त्तमानं दुःखयोगाद् दुःखं जन्म । सोऽयं जन्मवान् सव्वं लोकं दुःखेनानुविद्धं दृहन्तमिति पश्यन् दुःखं जिहासुः जन्मनि दुःखदर्शी निर्व्विद्यते, निर्व्विण्णो विरज्यते, विरक्तो विमुच्यते । इति । प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः । मनोऽत्र बुद्धिरित्यभिप्रेतं बुध्यतेऽनेनेति बुद्धिः । सोऽयमारम्भः शरीरेण वाचा मनसा च पुण्यः पापश्च दशविधः । सेयं प्रवृत्तिः कम्र्मोच्यते । तदुक्तं तिस्रं षणीये । कर्म्म वाङ्मनः शरीरमवृत्तिरिति । तस्या हेतवस्तु प्रवर्त्तनालक्षणा दोषाः । प्रवर्त्तना प्रवृत्तिहेतुत्वम् । ज्ञातारं हि रागादयः वर्त्तयन्ति पुण्ये पापे वा यत्र मिथ्या । तत् त्रैराश्यं रागद्वे षमोहार्थान्तरभावात् । तेषां दोषाणां त्रयो राशयः, त्रयः पक्षाः रागो रजोगुणात्मकस्तस्य पक्षाः कामो मत्सरः स्पृहा लोभ इति । द्वेषश्च रजोगुणात्मकस्तस्य पक्षाः क्रोध ईर्ष्यासूया द्रोहोऽमर्ष इति । मोहस्तमोगुणात्मकस्तस्य पक्षा मिथ्याज्ञानं
अभिनवृत्तिमभिसन्धायेति कर्त्तव्यताबुद्धिं स्थिरीकृत्य । . 'काफल 'शब्देनेह तादात्विकं
For Private and Personal Use Only