________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६६
चरक-संहिता। रोगभिषगजितीयं विमानम् करणं पुनस्तद् यदुपकरणायोपकल्पते कर्तः कार्याभिनिवृत्तौ प्रयतमानस्य।
कार्ययोनिस्तु सा या विक्रियमाणा कार्य्यत्वमेवापद्यते।
कार्यन्तु तद् यस्याभिनिवृत्तिं कर्त्ताभिसन्धाय प्रवर्तते। इत्येवमुक्तकलादिपञ्चविधधावावशिष्टव्यापारवान् कर्तृ संज्ञ एव नान्यसंशः । एतेन निष्पत्तिमात्रे कर्त्तवं सर्वत्रैवास्ति कारके- व्यापारभेदापेक्षायां करणवादिसम्भवः-इति ख्यापितम्। इति कारणषटकमपि करणादेः पृथग्ग्रहणादत्र कारणं कर्त्तव न करणादिकम् ।
क्रमिकं करणं लक्षयति—करणं पुनस्तदित्यादि। कार्याभिनित्तो प्रयतमानस्य कर्तुं स्तत्कार्याभिनित्तौ यदुपकरणाय उपकाराय कल्पते तत् करणं साधकतमम् । वातादावुपयुक्तस्य मधुरायचेतनद्रव्यस्य वातादिहरणे तद्रव्यसम्पत्तिरुपकरणायोपकल्पते तस्याः करणखवारणाय प्रयतमानस्येति । प्रयत्नस्तु चेतनाधातुलिङ्ग नाचेतने वर्तते, तेन भिषगादेः कर्तु चिकित्साभिनित्तौ प्रयतमानस्य भेषजशस्त्रादिकमुपकरणायोपकल्पते, इति भेषजशस्त्रादिकं करणम् । __क्रमिकलात् काय्ययोनिं लक्षयति-कार्ययोनिस्वित्यादि। या विक्रियमाणा विकृतिमापद्यमाना कार्यखमापद्यते सा कार्ययोनिः। यथामधुरादिरसद्रव्याणि भुक्तानि पकानि रसरक्तादिरूपमापद्यन्ते, इति रसरक्तादिकार्याणां योनिमधुरादिः। एवं वातादिज्वरादिकार्याणां योनिः इत्येवमादि। ___ क्रमिक कार्यमाह-कार्यन्तु तदित्यादि। यस्याभिनि→ त्तिमुत्पत्तिं बुद्रादिसमविषमयोगैरभिसन्धाय कर्ता प्रवर्तते, वाचा मनसा वा
___ करणं विवृणोति-करणं पुनरित्यादि । उपकरणायेति कत्तु : सम्पायकायें सन्निहितं सहकारितया व्याप्रियते। कार्याभिनिर्वृत्ताविति कार्यनिर्वृत्तिमुद्दिश्य। यतमानस्येति यत्नं कुर्वतः । एतेन यः कार्य कारणान्तरप्रेरकः, स चात्र कर्ता कारण'शब्देनोच्यते, यत् तु कर्तधीनव्यापार साधकतमम्, तत् करणम् । कर्तृत्वञ्च वै तस्यैव मुख्यम्, यो हि बुद्धिप्रयत्नयुक्तत्वादितरकारणप्रेरको भवति, अचेतने तु कर्तृत्वव्यपदेशः स्वातन्त्र्यविवक्षया भाक्तः ।
कार्यस्य योनिः समवायिकारणं कार्ययोनिः। येत्यादि। या योनिः कारणत्वेऽपि विक्रिया
For Private and Personal Use Only