________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टम अध्यायः ]
विमानस्थानम् ।
१६६५
I
तत्र कारणं नाम तद् यः करोति स एव हेतुः स कर्त्ता ऽल्पान्यतरेण प्रयत्नेनाभिनिर्व्वत्र्त्तयति सम्पादयति, तस्मात् ज्ञानपूव्वकं कर्म्मणां समारम्भं प्रशंसन्ति कुशलाः ।। ६८।६९ ।।
गङ्गाधरः - ननु कारणादिकं किं तावदित्यत आह तत्रेत्यादि । तत्र कारणादिषु मध्ये कारणं नाम तत् यः करोति स एव हेतुः स कत्तति पर्यायः । कारकं प्रयोजक इत्यपि पर्यायान्तरं वाच्यम् । भगवान् पाणिनिरप्युवाच – कारके स्वतंत्रः कर्त्ता प्रयोजको हेतुश्चेति । करोतीति तत्क्रियां फलरूपां निष्पादयति या क्रिया तत् कारकं, तदाश्रयो मुख्यं यत् तत् कारणं, स एव हेतुः स कर्त्ता । क्रिया पुनः प्रयोजनहेतवः फलं व्यापारश्च प्रयोजनं मुख्यं चरमफलं तच्च न धातुनोच्यते गम्यमानत्वात् । फलन्तु प्रयोजन सुर्व्यापारनिष्पादं धातुनोच्यते । व्यापारस्तु प्रयत्नजनिता चेष्टा, सा च धातुनोच्यते पञ्चविधा सम्भवत्यतो न हि सव्र्वेण धातुना पञ्चधा व्यापारोऽभिधातु सम्भाव्यते । पञ्चधातिरिक्तस्तु व्यापारो नास्ति । चेतने तु प्रयत्नोऽपि व्यापारेणोपलक्ष्यते । उक्त हि - आत्मजन्या भवेदिच्छा इच्छाजन्या भवेत् कृतिः । कृतिजन्या भवेच्चेष्टा चेष्टाजन्यं भवेत् फलमिति । तदा प्रयत्नच्छाप्युपलक्ष्यते व्यापारपदेन तस्मात् साधारणत्वादिच्छाप्रयत्नौ न धातुना अभिधातुमिते परन्तु कारणत्वात् गम्येते । तथा च एपिता यदिच्छन् क्रियायां प्रवर्त्तते तदीप्सिततमं कर्म्म, तच व्यापारनिष्पादन, पचनादौ विक्लित्यादि, फलं तदाश्रयः । एपिता प्रयतमानस्तत् क्रियायां प्रवत्तेमानस्तत्फलमव्यवधानेन ये व्यापारेण साधयति तत् साधकतमं करणं, पाकादौ काष्ठान्नप्रादिव्यापारः । यस्तु तत्क्रियेपितृप्रयतमानप्रवत्तेमानकत्तु कर्मादिक येन व्यापारेण आधारयति व्यापारवान् स आधारोऽधिकरणम्, पाकादौ स्थाल्यादिस्तण्डुलादेः धारणाण्यापारेणाधारः । एषिता प्रयतमानस्तत् क्रिया कम्मेणा यदव्यापारेण यमभिप्रैति तदनुमतिप्रकाशस्वीकारादिव्यापारवत् सम्प्रदानम्, दानादी विप्रादेरनुमतिप्रकाश स्वीकारादिव्यापारः । यद्यव्यापारेण भ्रवमपायें तदव्यापारवत् तदपादानम्, पतनाद । पर्णादे क्षादिवधिखव्यापारवानपादानम् ।
चक्रपाणिः – उक्तानि कारणादीनि व्याकरोति तत्रत्यादिना । 'यद्' इति 'कारण' प्रत्यवमर्षात् पुंसकं भवतीति करोति । तेन इह 'कारण' शब्देन स्वतन्त्रकारणं 'कर्त्तृ' लक्षणं ब्रुवते ।
* 'यत्' इति चक्रः ।
For Private and Personal Use Only