________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६२
चरक-संहिता। रोगभिषजितीय विमानम् षड्दोषा वाक्यस्य व्याख्याताः। हेवन्तरं व्याख्यातमर्थान्तरश्च। निग्रहस्थानमिति। शेषश्च निग्रहस्थानं वेदितव्यम्। तद् यथा। अप्राप्तकालमपसिद्धान्तोऽननुभाषणमज्ञानमप्रतिभाविक्षेपो मतानुशा चेति। तत्राप्राप्तकालादिकमुक्तं गौतमेन। अवयव विपर्यासवचनमप्राप्तकालमिति। प्रतिशादीनाम् अवयवानां यथालक्षणमर्थवशात् क्रमः। तत्रावयव विपर्यासेन व्यतिक्रमण वचनमप्राप्तकालम् । असम्बद्धार्थकालं निग्रहस्थानमिति। सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः। कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययादनियमात् कथां प्रसञ्जयतोऽपसिद्धान्तो वेदितव्यः । यथा न सदात्मानं जहाति न सतो विनाशो नासदात्मानं लभते नासत् उत्पद्यत इति सिद्धान्तमभ्युपेत्य स्वपक्षं व्यवस्थापयति । इति। अथाननुभापणमिति । विशातस्य परिपदा त्रिरभिहितस्याप्यनुच्चारणमननुभाषणमिति । विज्ञातस्य वाक्यार्थस्य परिषदा प्रतिवादिना च त्रिरभिहितस्य यदप्रत्युच्चारणं तदननुभाषणं नाम निग्रहस्थानम् । अप्रत्युच्चारयन् किमाश्रयं परपक्षप्रतिषेधं ब्रू यात्। इति। अविज्ञातश्चाशानम्। विज्ञातार्थस्य परिषदा प्रतिवादिना च त्रिरभिहितस्य यदविज्ञानं तदज्ञानं निग्रहस्थान मिति, यन्न विज्ञातं तस्य प्रतिषेधं कथं कुर्यादिति। इत्यनुभाषणश्चाज्ञानश्चाविज्ञातार्थञ्चेति त्रयं त्रिरुक्तस्येत्यादिना प्रथमोक्तं निग्रहस्थाने न संगृहीतं बोध्यम् ।। उत्तरस्याप्रतिपत्तिः अप्रतिभा इति । प्रतिपक्षप्रतिषेध उत्तरम् । तद यदा न प्रतिपद्यते तदा न गृहीतो भवति। मतानुज्ञा चोक्ताभ्यनुज्ञा नाम। इति निग्रहस्थानम्। विक्षेपश्च । काय्यव्यासङ्गात् कथाविच्छेदो विक्षेप इति । यत्र कर्त्तव्यं व्यासज्य कथा व्यवच्छिनत्ति-इदं मे करणीयं विद्यात् तस्मिन्नवसिते करिष्यामीति विक्षेपो नाम निग्रहस्थानम्। एकनिग्रहावसानायां कथायां स्वयमेव कथान्तरं प्रतिपद्यत इति ।०। अयं वादस्तद्विद्यसम्भाषा नाम गौतमेन चोक्ता। ज्ञानग्रहणाभ्यासस्तद्विदेशः सह संवादः इति। तदर्थमिति। प्रकृतं ज्ञायतेऽनेन इति ज्ञानमात्मविद्याशास्त्रं, तस्य ग्रहणमध्ययनधारणे, अभ्यासः सततक्रिया अध्ययनश्रवणचिन्तनानि। तद्विदौश्व सह संवाद इति प्रज्ञापरिपाकाथम्। परिपाकस्तु संशयच्छेदनमविज्ञातार्थावबोधोऽध्यवसिताभ्यनुज्ञानमिति। सन्धाय वादः संवादः। तद्विदाः सह यैः संलापः कार्य्यस्तदुच्यते। तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनमूयिभिरभ्युपेयात् । एतन्निगदेनैव नीतार्थम् इति। एष संवादः सन्धायसम्भाषा प्रागिहै वाध्याये व्याख्याता। यदिदं
| HARIHITHHTHHHEL
For Private and Personal Use Only