________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः )
विमानस्थानम् ।
१६६३
इति वाद मार्गपदानि यथोद्देशमभि निर्दिष्टानि भवन्ति ॥ ६५ ॥ वादस्तु खलु भिषजां वर्त्तमानो वर्त्ततायुर्वेद एव न त्वन्यत्र । तत्र हि वाक्यप्रतिवाक्यविस्तराः केवलाश्वोपपत्तयः सर्वाधिकरणेषु च । ताः सर्व्वाः सम्यगवेच्यावेक्ष्य सव्वं वाक्यं ब्रूयात् । नाप्रकृतकमशास्त्रमपरीचितमसाधकमाकुलमज्ञापकं वा । सर्व्वञ्च हेतुमद् ब्रूयात्, हेतुमन्तो ह्यकलुषाः सर्व्व एव
मन्येत | पक्षप्रतिपक्ष परिग्रहः प्रतिकूलः परस्येति । तत्राह । प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थिखे इति । तमभ्युपेयादित्यनुवर्त्तते । परतः प्रणामुपादित्समानस्तत्त्वबुभुत्सा प्रकाशनेन स्वपक्षमनवस्थापयन् स्वदर्शनं परिशोधयेदिति । अन्योन्यप्रत्यनीकानि च प्रावादुकानां दर्शनानि, स्वपक्षरागेण चैके न्याय्यमति
वर्त्तन्ते । तत्र । तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे वीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् इति । अनुत्पन्नतत्त्वज्ञानानामप्रहीणदोषाणां तदर्थं घटमानानामेतदिति । विद्यानिर्वेदादिभिश्च परेणाविज्ञायमानस्य ताभ्यां विगृह्य कथनम् । विगृहेप्रति विजिगीषया न तवबुभुत्सयेति । तदेतत् विद्यापालनार्थं, न लाभपूजाख्यात्यर्थमिति । उद्दिष्टानां व्याख्यानं समापयति । इति वादमार्गपदानि यथोद्दिष्टमभि लक्षीकृत्य निर्दिष्टानि भवन्तीति ।। ६५ ।।
गङ्गाधरः- ननु य एव वाद उक्तः स खलु भिषजां किं सव्र्व्वस्मिन्नेव शास्त्रे वर्त्तते न वेति, तत्राह - वादस्त्वित्यादि । भिषनामायुर्वेदशास्त्र एव वत्तंमानो वर्त्तेत नान्यत्र वर्त्ततेति । कस्मात् ? तत्र हीत्यादि । तत्रायुर्वेदे भिषजां चिकित्सा क्रियासिद्धिप्रयोजनाय वाक्यप्रतिवाक्यविस्तरा वादमार्गपदार्थ: कृत्स्ना चोपपत्तयो भवन्ति न चान्यत्र शास्त्रे । कुतः १ सर्वाधिकरणेष्वायुर्वेदो भिषक् । ताः सर्व्वाः प्रतिपत्ती: समीक्ष्य वाक्यं ब्रूयात् । न चाप्रकृतम् अशास्त्रमपरीक्षितमसाधक माकुलमापकं वा ब्रूयादिति । सव्र्व्वश्च हेतुमद् ब्रूयात् ।
तथाविधोपकारकत्वाभावात् तत्प्रपञ्चविषयमपि न प्रपञ्चितम् न्यायविदान्तु एतदनुक्तमपि सुगममेव, तत्त्ववेदिनाञ्च मनाक् प्रपञ्चोक्तमपि नालं ज्ञानायेत्यलं प्रपञ्चेनेति ॥ ६५ ॥
चक्रपाणिः - इदानीं यथोक्तवाद एवायुर्वेद आयुर्वेदाध्यायिभिः कर्त्तव्यः, एवम्भूतस्यैव वादस्य विवक्षितत्वं सम्यग्ज्ञानजनकत्वादित्याह - वाद इत्यादि । अथ किमत्र वादविषयाः सन्तीत्याह* अध्यापकमिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only