________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः !
विमानस्थानम् ।
१६६१
3
वत्याम् । यद्वा अननुयोज्यस्यानुयोगोऽनुयोज्यस्य चाननुयोगः । प्रतिज्ञाहानिरभ्यनुज्ञा कालातीतवचनमहेतु न्यू नमधिकं व्यर्थम् अनर्थकं पुनरुक्तं विरुद्धं हेत्वन्तरमर्थान्तरं निग्रहस्थानम् । विकल्प इति । तत्राविज्ञानमननुभाषणमप्रतिभाविक्षेपो मतानुज्ञा पर्य्यनुयोज्योपेक्षणमित्येतदप्रतिपत्तिनिग्रहस्थानम् । शेषस्तु विप्रतिपत्तिरिति । तद् विमतिपचिविकल्पान्निग्रहस्थानमविभागोऽयं त्रिरुक्तस्येत्यादिकमर्थान्तरान्तम् । तत्र त्रिरुक्तस्येति । विज्ञानवत्यां परिषदि न तु मूढायां वादे प्रवत्तमानयोई योरेकेण वादिना पारिषदैन वा श्लिष्टशब्दगूढार्थशब्दाप्रतीतप्रयोगदुब्बधार्थातिद्रतोचारितादिशब्दै स्त्रिरुक्तस्य वाक्यस्यार्थतोऽपरस्य वादिनो यन्न विज्ञानं भवति तत् खल्वविज्ञातार्थमुच्यते निग्रहस्थानम् । गौतमेन चोक्तम् । परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थमिति । यद्वाक्यं परिषदा प्रतिवादिना च त्रिरभिहितमपि न विज्ञायते श्लिष्टशब्दमप्रतीतप्रयोगमतितोच्चारितमित्येवमादिना कारणेन, तदविज्ञातमविज्ञातार्थमसामर्थ्यसंवरणाय प्रयुक्तमिति निग्रहस्थानमिति । अन्यच्चाह - यद्वेत्यादि । अननुयोज्यानुयोगः । प्रागुक्तं यद्वाक्यं वाक्यदोषयुक्तं तदनुयोज्यमननुयोज्यं नामातो विपर्ययेण तस्यानुयोगस्त द्विदेवः सह दोषवत्तया भाषणमित्यननुयोज्यानुयोगः । गौतमेन चोक्तम् । निरनुयोज्यानुयोग इति । अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोग इति । निग्रहस्थानलक्षणस्य मिथ्या अध्यवसायादनिग्रहस्थाने निगृहीतोऽसीति परो ब्रुवन् निरनुयोज्यानुयोगात् निगृहीतो वेदितव्य इति । अनुयोज्यस्याननुयोगः । सदोषवाक्यं ब्रुवन्ननुयोज्यो यो भवति तस्याननुयोगो दोपवद्वाक्यवादितयानुयोगोपेक्षाकरणं तत्कत्तों निग्राह्यो भवति । गौतमेन चोक्तम् । गौतमेन चोक्तम् । निग्रहस्थानमाप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणमिति । पर्य्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः, तस्य उपेक्षणं निग्रहस्थानं प्राप्तोऽसीति अननुयोगः । एतच्च कस्य पराजयः ? इत्यनुयुक्तया परिषदा वचनीयमिति || प्रतिज्ञाहानिश्चतुर्व्विधा व्याख्याता | कालातीतवचनं व्याख्यातम् । अहेतवो हेत्वाभासा व्याख्याताः । न्यूनादयः वत्यामित्यनेन, यदि परिषत् तस्य त्रिरभिहितस्यार्थं विजानाति, प्रतिवादी च न जानाति, तदा तस्य निग्रहस्थानं भवति । अन्यानयुक्तानेव निग्रहस्थानत्वेनाह - अननुयोज्य स्यानुयोग इत्यादि । एते च व्याकृता एव । अत्र चाप्रतिभादयो न्यायोक्ता अन्तर्भावनीया बुद्धिमद्भिः, आयुर्वेदे
For Private and Personal Use Only