________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६०
चरक-संहिता। रोगभिषगजितीयं विमानम् अथार्थान्तरम्। अर्थान्तरं नाम एकस्मिन् वक्तव्येऽपरं यदाह। यथा ज्वरलक्षणे वाच्ये प्रमेहलक्षणमाह ॥ ६४ ॥ __ अथ निग्रहस्थानम्। निग्रहस्थानं नाम पराजयप्राप्तिः, तच्च त्रिरुक्तस्य वाक्यस्याविज्ञान परिषदि विज्ञान
गङ्गाधरः-अर्थान्तरमुद्दिष्टं तदाह-अथार्थान्तरमिति। अर्थान्तरं नाम इत्यादि । एकस्मिन् वक्तव्येऽपरं यदाह तदर्थान्तरम्। यथा ज्वरलक्षणे वाच्ये प्रमेहलक्षणमाहेति। गौतमेनाप्युक्तम् । प्रकृतादादप्रतिसम्बद्धार्थमर्थान्तरम् इति। यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृतायां ब्रू यात्। नित्यः शब्दोऽस्पर्शखादिति हेतुः। हेतुर्नाम हिनोतर्धातोस्तुनिप्रत्यये कृदन्तपदम्। पदश्च नामाख्यातोपसर्गनिपाताः। अभिधेयस्य क्रियान्तरयोगाद्विशिष्यमाणरूपः शब्दो नाम क्रियाकारकसमुदायः, कारकसङ्ख्या विशिष्ट क्रियाकालयोगाभिधायि आख्यातम्। धाखथेमात्रञ्च कालाभिधानविशिष्टम्। योगेष्वर्थादभिद्यमानरूपा निपाताः। उपसृज्यमानाः क्रियावद्योतका उपसर्गा इत्येवमादि यत्, तदर्थान्तरं वेदितव्यमिति ॥६४॥ ___ गङ्गाधरः-यदुद्दिष्टं निग्रहस्थानं तदाह-अथ निग्रहस्थानमिति। किं पुननिग्रहस्थानमुच्यते तत् आह-निग्रहस्थानं नामेत्यादि। पराजयः पाप्यते येन सा पराजयप्राप्तिनिग्रहस्थानं नामोच्यते। तस्य विभागोऽविज्ञातार्थादिकम् । तदन्वाह त्रिरुक्तस्येत्यादि। उक्तञ्च गौतमेन सामान्यलक्षणम् । विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानमिति । विपरीता वा कुत्सिता वा प्रतिपत्तिर्विप्रतिपत्तिः। विप्रतिपद्यमानः पराजयमामोति, निग्रहस्थानं खलु पराजयप्राप्तिः। अप्रतिपत्तिस्वारम्भविषये न प्रारम्भः। परेण स्थापितं वा न प्रतिषेधति, प्रतिषेधं वा नोद्धरति। असमासाच्च नेता एव निग्रहस्थाने इति ।। तद्विकल्पान्निग्रहस्थानबहुखमिति । तयो विप्रतिपत्त्यप्रतिपत्त्योः विकल्पान्निग्रहस्थानबहुसमिति । नानाकल्पो विकल्पो विविधो वा कल्पो
चौर इति। एतद्धि वचनं स्वीयमनिष्टचौरत्वं परस्य चेष्टचौरत्वमप्यभ्यनुजानाति। तदेवं वचनं न्याये 'मतानुज्ञा'शब्देनोच्यते ॥ ६१-६४ ॥
चक्रपाणिः-निग्रहस्याभिभवस्य स्थानमिव स्थानं कारणमिति निग्रहस्थानम्, परिषदि विज्ञान
For Private and Personal Use Only