________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५६
८म अध्यायः ]
विमानस्थानम् । अथ हेत्वन्तरम्। हेत्वन्तरं नाम प्रकृतिहेतौ वक्तव्ये यद्विकृतिहेतुमाह ॥ ६३ ॥
इष्टानिष्टाभ्युपगमः साभ्यनुज्ञा नामोच्यते। य इष्टं स्वपक्षं परेण प्रदर्शितदोषखादनिष्टं कृत्वा परमतमभ्युपगच्छति साभ्यनुज्ञा मतानुज्ञा। तदुक्तं गौतमेन। स्वपक्षदोपाभ्युपगमात् परपक्षदोपप्रसङ्गो मतानुज्ञा। प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधप्रतिषेधे समानो दोषप्रसङ्गो मतानुशा। यः परेण चोदितं दोषं स्वपक्षेऽभ्युपगम्य नोद्धत्य वदति भवत्पक्षे समानो दोष इति, स स्वपक्षदोषाभ्युपगमात् परपक्षदोषं प्रसक्तं कुर्वन् परमतमनुजानातीति मतानुज्ञा नाम निग्रहस्थानमापद्यते इति ॥६२॥
गङ्गाधरः-ततो हेवन्तरमाश्रयेदित्युक्तम् । हेवन्तरमिति तत् कीदृशमित्यत आह--अथ हेवन्तरमिति। हेवन्तरं नामेत्यादि। प्रकृतिहेतौ वाच्ये यद्विकृतिहेतुमाह त खन्तरं नामोच्यते। उक्तश्च गौतमेन। अविशेषोक्त हेतौ प्रतिपिद्धे विशेषमिच्छतो हे खन्तरमिति। एकप्रकृतीदं व्यक्तमिति प्रतिज्ञा। कस्मात् ? एकप्रकृतीनां विकाराणां परिमाणात्, मृत्पूर्वकाणां शरावादीनां दृष्टं परिमाणं यावान् प्रकृतव्य हो भवति तावान् विकार इति । दृष्टश्च प्रतिविकारं परिमाणम् । अस्ति चेदं परिमाणं प्रव्यक्तम् । तदेकप्रकृतीनां विकाराणां परिमाणात् पश्यामो व्यक्तमिदमेकप्रकृतीति। अस्य व्यभिचारेण परिहारः। नानाप्रकृतीनामेकप्रकृतीनाश्च विकाराणां दृष्टं परिमाणमिति ; एवं प्रत्यवस्थिते स आह-एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनात्। सुखदुःखमोहसमन्वितं हीदं व्यक्तं परिमितं गृह्यते। तत्र प्रकृत्यन्तरसमन्वयाभावे सत्येकप्रकृतिलमिति। तदिदमविशेषोक्ते हेतौ प्रतिपिद्धे विशेषं ब्रुवतो हेखन्तरं भवतीति। सति च हेवन्तराभावे पूर्वस्य हेतोरसाधकलान्निग्रहस्थानम्। हेवन्तरवचने सति यदि हेवर्थनिदर्शनो दृष्टान्त उपादीयते, नेदं व्यक्तमेकप्रकृतिकं भवति प्रकृत्यन्तरोपादानात् । अथ नोपादीयते हे खर्थस्यानिदशितस्य साधकभावानुपपत्तेरानर्थक्याखेतोरनिवृत्तं निग्रहस्थानमिति ॥ ६३॥
चक्रपाणिः-इष्टानिष्टाभ्युपगमः, यथा--भवान् चौर इत्युक्त्या दोषं न परिहृत्य; भवानपि
For Private and Personal Use Only