________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५८
चरक-संहिता। रोगभिषजितीयं विमानम् अथाभ्यनुज्ञा। अभ्यनुज्ञा नाम सा य इष्टानिष्टाभ्युपगमः॥ ६२॥ प्रतिज्ञातार्थप्रतिषधे धर्म विकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरमिति । प्रतिज्ञातार्थोऽनित्यः शब्द ऐन्द्रियकवाद घटवदिति। तत्र यः प्रतिषेधः प्रतिदृष्टान्तन हेतुव्यभिचारो यथा-सामान्यं नित्यमैन्द्रियकमिति तस्मिंश्च प्रतिशातार्थे प्रतिषिद्धे धर्मविकल्पादिति दृष्टान्तप्रतिदृष्टान्तयोः साधम्म्ययोगे धम्म भेदात् सामान्यमै न्द्रियकं सर्वगतम्, ऐन्द्रियकस्वसवंगतो घट इति धम्मेविकल्पात्। तदर्थ निर्देश इति साध्यसिद्धाथम् । यथा घटोऽसवंगत एवं शब्दोऽप्यसर्वगतो घटवदेवा नित्य इति ; तत्रानित्यः शब्द इति पूर्वप्रतिज्ञा। असर्वगत इति द्वितीया प्रतिज्ञा प्रतिज्ञान्तरमेतदपि प्रतिज्ञाहानिविशेषः। अनित्यः शब्द इतिमात्रप्रतिज्ञात्यागो हि शब्दोऽसव्वंगतोऽनित्य इत्युक्ते भवति। तहिं कथं निग्रहस्थानमिदं प्रतिज्ञान्तरमिति ? प्रतिज्ञायाः साधनं न प्रतिज्ञान्तरं, किन्तु हेतुदृष्टान्तौ प्रतिज्ञायाः साधनम् । तदेतदसाधनोपादानमनर्थकमित्यानर्थक्यान्निग्रहस्थानमिति। अथ हेतुप्रतिशयोविरोधे सति प्रतिक्षायाः स्थापना न भवतीति तां प्रतिज्ञां जहातीति प्रतिज्ञा. विरोधोऽपि प्रतिज्ञाहानिविशेषः। उक्तश्च गौतमेन। प्रतिज्ञाहेखोर्विरोधः प्रतिज्ञाविरोध इति। गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा। रूपादितोऽर्थान्तरस्य अनुपलब्धेरिति हेतुः। द्वयोः परस्पर विरोधः। गुणव्यतिरिक्तं द्रव्यं तचोपलभ्यते कथं रूपादिव्यतिरिक्तस्यानुपलब्धिरिति रूपादिगुणव्यतिरिक्तस्यानुपलब्धिश्चेत् तहिं कथं गुणव्यतिरिक्तं द्रव्यं भवतीति विरोधाद गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञां जहातीति प्रतिज्ञाहानिविशेष एव। तत्र यदि प्रतिज्ञाता) निह्न ते तदा प्रतिशानिह्नवात् प्रतिक्षात्यागो भवतीति प्रतिज्ञासन्नग्रास उच्यते । उक्तश्च गौतमेन। पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यास इति। अनित्यः शब्द ऐन्द्रियकवादित्युक्ते परो ब्रूयात् सामान्यमै न्द्रियकं न चानित्यम्, एवं शब्दोऽप्यन्द्रियको न चानित्य इत्येवं प्रतिषिद्धेऽनित्यत्वपक्षे यदि ब्रूयात् कः खल्वाहानित्यः शब्द इति। सोऽयं प्रतिज्ञातार्थनिर्वः। प्रतिज्ञासंन्यास इति प्रतिक्षात्यागविशेषः प्रतिज्ञाहानिरेवेति न विरोधः ॥६१॥
गङ्गाधरः-नन्वेवं वादः क उच्यते इत्यत उद्दिष्टमभ्यनुशे ति। अथाभ्यनुत्यादि। का पुनरभ्यनुज्ञे त्यत आह-अभ्यनुज्ञा नाम सेत्यादि। य
For Private and Personal Use Only