________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५६
चरक-संहिता। (रोगभिषगजितीयं विमानम् वैधम्माम् । एवं साधम्माविशेषो हेतु विशेषण साधर्मामात्र वैधर्मात्रमात्रं वा, साधर्म्यमात्रं वैधम्मामात्रश्चाश्रित्य भवानाह-साधर्मप्रात् तुल्यधम्मोपपत्तेः सावित्यत्र प्रसङ्गादनित्यसमः इति । एतदयुक्तमिति । अविशेषसमप्रतिषेधे च यदुक्तं तदपि वेदितव्यमिति ।। अथ कार्यसमः। प्रयत्नकार्यानेकखात् कार्यसमः इति। प्रयत्नानन्तरीयकवादनित्यः शब्द इति, यस्य प्रयत्नानन्तरम् आत्मलाभस्तत् खल्वभूखा भवति । यथा-घटादिकार्यम, अनित्यमिति न भूखा भवतीत्येतद् विज्ञायते । एवं व्यवस्थिते प्रयत्नकार्यानेकलादिति प्रतिषेध उच्यते । प्रयत्नानन्तरमात्मलाभश्च दृष्टो घटादीनाम् । व्यवधानापोहाचाभिव्यक्तिः व्यवहितानाम् । तत् किं प्रयत्नानन्तरमात्मलाभः शब्दस्याहो अभिव्यक्तिः ? इति विशेषो नास्ति। कार्याविशेषेण प्रत्यवस्थानमुपालम्भः कार्यसम इति । तस्य परिहारः। कार्यान्यत्वे प्रयत्नाहेतुसमनुपलब्धिकारणोपलब्धः। सति कार्यान्यत्वे अनुपलब्धिकारणोपपत्तेः प्रयत्नस्याहेतुलं शब्दस्याभिव्यक्तौ । यत्र प्रयत्नानन्तरमभिव्यक्तिस्तत्रानुपलब्धेः कारणं व्यवधानमुपपद्यते, व्यवधानापोहाच्च प्रयत्नानन्तरभाविणोऽर्थस्योपलब्धिलक्षणाभिव्यक्तिर्भवतीति। न तु शब्दस्यानुपलब्धिकारणं किञ्चिदुपपद्यते। यस्य प्रयत्नानन्तरं व्यवधानापोहाच्छब्दस्योपलब्धिलक्षणाभिव्यक्तिर्भवतीति, तस्मादुत्पद्यते शब्दो नाभिव्यज्यते। हेतोश्चेदन कान्तिकसमुपपद्यते अनैकान्तिकबादसाधकः स्यादिति । यदि चानैकान्तिकबादसाधकम्, प्रतिषेधेऽपि समानो दोषः। प्रतिषेधोऽप्यनैकान्तिकः, किञ्चित् प्रतिषेधति किञ्चिन्न प्रतिषेधति। तदनैकान्तिकखान्न साधकः प्रतिषेधः। अथवा शब्दस्यानित्यवपक्षे प्रयत्नानन्तरमुत्पादः, नाभिव्यक्तिरिति विशेषहेखभावः। नित्यत्वपक्षेऽपि प्रयत्नानन्तरमभिव्यक्तिः, नोत्पाद इति विशेषहेखभावः । सोऽयमुभयपक्षसमो विशेषहे खभाव इत्युभयमप्यनैकान्तिकमिति। सर्वत्रैवम्। सर्वत्र प्रकरणसमादिषु प्रतिषेधहेतुषु यत्राविशेषो दृश्यते तत्रोभयोः पक्षयोः समः प्रसज्यते इति । प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः। योऽयं प्रतिषेधेऽपि समानो दोषो ऽनकान्तिकलमापद्यते, सोऽयं विप्रतिषेधे प्रतिषेधस्य प्रतिषेधे प्रतिषेधवत् समानो दोषोऽनकान्तिकसमापद्यते । तत्रानित्यः शब्दः प्रयत्नान्तरीयकखादिति साधनवादिनः स्थापना प्रथमः पक्षः। प्रयत्नकार्यानेककार्यखात् कार्यसम इति दूषणवादिनः प्रतिषेधहेतुना द्वितीयः पक्षः, स च प्रतिषेध इत्युच्यते। तस्मिन् प्रतिषेधे पुनस्तस्य प्रतिषेधेऽपि समानो दोषोऽनैकान्तिकलं
For Private and Personal Use Only