________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः] . विमानस्थानम् ।
१६५५ अस्ति मे संशयज्ञानं नास्ति मे संशयज्ञानमिति। एवं प्रत्यक्षानुमानागमस्मृतिशानेषु सेयमावरणाद्यनुपलब्धिरुपलब्ध्यभावः स्वसंवेद्यः, नास्ति मे शब्दस्य आवरणाप्रपलब्धिरिति नोपलभ्यन्ते शब्दस्याग्रहणकारणान्यावरणादीनीति। तत्र यदुक्तं तदुपलब्धेरनुपलम्भादभावसिद्धिरिति, एतन्नोपपद्यते। इति ।। अथ नित्यसमः । नित्यमनित्यभावादनित्ये नित्यखोपपत्तेनित्यसमः । अनित्यः शब्द इति प्रतिज्ञायते । तदनित्यवं किं शब्दे नित्यम् अथानित्यम् ? यदि तावत् सदा भवति धर्मस्य सदाभावाद्धर्मिणोऽपि सदाभाव इति नित्यः स्याच्छब्द इति । अथ न सव्वेदा भवति, अनित्यवस्याभावान्नित्यः शब्दः । एवं नित्यवेन प्रत्यवस्थानान्नित्यसम इति। तस्य परिहारः। प्रतिषेध्ये नित्यमनित्यभावादनित्येऽनित्यलोपपत्तेः प्रतिषेधाभावः। इति। प्रतिषेध्ये शब्द नित्यम् अनित्यभावादित्युच्यमानेऽनुज्ञातं शब्दस्यानित्यत्वम् । अनित्ये चानित्यवोप. पत्तेश्च नानित्यः शब्द इति प्रतिषेधो नोपपद्यते। अथ नाभ्युपगम्यते। नित्यमनित्यभावादिति हेतुन भवति । इति हेत्वभावात् प्रतिषेधानुपपत्तिरिति । उत्पन्नस्य निरोधादभावः शब्दस्यानित्यवं तत्र परिप्रश्नानुपपत्तिः। सोऽयं प्रश्न:-तदा नित्यत्वं किं शब्दे सव्वदा भवति अथ न ? इत्यनुपपन्नः । कस्मात् ? उत्पन्नस्य यो निरोधादभावः शब्दस्य तदनित्यवम् । एवं सत्यधिकरणाधेयविभागो व्याघातान्नास्तीत्यभावो वस्तुभूतः। नित्यमिति विरोधाचानित्यवम् अनित्यतालञ्चैकस्य धर्मिणो धम्मो विरुध्येते। न सम्भवतः। तत्र यदुक्तं नित्यमनित्यभावानित्य एव, तदवर्तमानार्थमुक्तमिति || अथानित्यसमः । साधात् तुल्यधम्मोपपत्तेः स नित्यवप्रसङ्गादनित्यसम इति। अनित्येन घटेन साधादनित्यः शब्द इति ब्रुवतोऽस्ति घटेनानित्येन सर्वभावाणां साधर्म्यमिति सर्वस्यानित्यवमनिष्टं सम्पद्यते। सोऽयमनित्येन प्रत्यवस्थानादुपलम्भादनित्यसम इति। तस्य परिहारः। साधादसिद्धः प्रतिषेधासिद्धिः प्रतिषेध्यसाधम्मैत्रात् । इति। प्रतिज्ञाद्यवयवयुक्तं वाक्यं पक्षनिवर्त्तकम्। प्रतिपक्षलक्षणः प्रतिषेधः। तस्य पक्षण प्रतिषेध्येन साधर्मग्र प्रतिक्षायोगः। तद् यद्यनित्यसाधर्मवादनित्यवस्यासिद्धिः, साधर्मादसिद्धेः । प्रतिषेधस्याप्यसिद्धिः प्रतिषेध्येन साधर्मवादिति। दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुखात् तस्य चोभयथाभावान्नाविशेषः इति । दृष्टान्ते यः खलु धर्मः साध्यसाधनभावेन प्रज्ञायते, स हेतुत्वेनाभिधीयते ; स चोभयथा भवति। केनचित् समानः कुतश्चिद्विशिष्टः। सामान्यात् साधमा विशेषाच
For Private and Personal Use Only