________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५४
चरक-संहिता। (रोगभिषगजितीयं विमानम् ब्रवतोक्तः प्रतिषेध इति चेत् स्वपक्षपरपक्षयोः समानो व्याघातः। स च नैकतरस्य साधक इति ।। अथोपलब्धिसमः। निद्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः। इति। निर्दिष्टस्य प्रयत्नानन्तरीयकवस्यानित्यखकारणस्याभावेऽपि वायुनोदनाद वृक्षशाखाभङ्गजस्य शब्दस्यानित्यवमुपलभ्यते । निर्दिष्टस्य साधनस्याभावेऽपि साध्यधम्मोपलब्ध्या प्रत्यवस्थानमुपालम्भ उपलब्धिसमः इति। तस्य परिहारः। कारणान्तरादपि तद्धोपपत्तेरप्रतिषेध इति। प्रयत्नानन्तरीयकवादिति अवता कारणत उपपत्तिरभिधीयते। न कार्यस्य कारणनियमः। यदि च कारणान्तरादप्युपपद्यमानस्य शब्दस्य तदनित्यत्वमुपपद्यते। किमत्र प्रतिषिध्यते ? न प्रागुच्चारणाद विद्यमानस्य शब्दस्यानुपलब्धिः। कस्मात् ? आवरणाद्यनुपलब्धः। यथा विद्यमानस्योदकादेरर्थस्यावरणादेरनुपलब्धिः। नैवं शब्दस्याग्रहण कारणेनावरणादिनानुपलब्धिः । गृह्यते चैतदस्याग्रहणकारणमुदकादिवन्न गृह्यते । तस्मादुदकादिविपरीतः शब्दोऽनुपलभ्यमान इति ।। अथानुपलब्धिसमः। तदनुपलब्धेरनुपलम्भाद अभावसिद्धौ तविपरीतोपपत्तेरनुपलब्धिसमः इति। तेषामावरणादीनामनुपलब्धि!पलभ्यते । अनुपलम्भान्नास्तीत्यभावोऽस्याः सिधाति । अभावसिद्धौ हेखभावात् तविपरीतमस्तिखमावरणादीनामवधाय्यते। तद्विपरीतोपपत्तेर्यत् प्रतिज्ञातं न प्रागुच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिरित्येतन्न सिधाति । सोऽयं हेतुरावरणानुपलब्धेरित्यावरणादिषु चावरणाद्यनुपलब्धौ च समयानुपलथ्या प्रत्यवस्थितोऽनुपलब्धिसमो भवति। तस्य परिहारः। अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः। आवरणाद्यनुपलब्धेरुपलब्धि स्ति, अनुपलम्भादित्यहेतुः। कस्मात् ? अनुपलम्भात्मकखादनुपलब्धेः। उपलम्भाभावमात्रखादनुपलब्धः। यदस्ति तदुपलब्धेविषयः। अनुपलभ्यमानं नास्तीति प्रतिशायते। सोऽयमावरणाद्यनुपलब्धेरुपलम्भाभावोऽनुपलब्धौ स्वविषये प्रवर्त्तमानो न स्वविषयं प्रतिषेधति । अप्रतिषिद्धा चावरणादुरपलब्धिहतुखाय कल्प्यते। आवरणादीनि तु विद्यमानखादुपलब्धेविषयास्तेषामुपलब्ध्या भवितव्यमिति। यत् तानि नोपलभ्यन्ते तदुपलब्धेः स्वविषयप्रतिपादिकाया अभावादनुपलम्भादनुपलब्धेविषयो गम्यते। न सन्त्यावरणादीनि शब्दस्य अग्रहणकारणानि । इति अनुपलम्भादनुपलब्धिः सिधपति, विषयः स तस्येति । कथं तर्हप्रवस्तु स्याद्विषय इति ? शानविकल्पानाच भावाभावसंवेदनादध्यात्मम्। अहेतुरित्यनुवर्तते। शारीरे शरीरिणां शानविकल्पानां भावाभावी संवेदनीयो।
For Private and Personal Use Only