________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम् ।
१६५३ पत्तेः। इति। अनुपपाद्यसामर्थ्यमनुक्तमदापद्यते इति ब्रुवतः पक्षहानेः उपपत्तिरनुक्तवात्। अनित्यपक्षसिद्धावादापन्नस्य नित्यपक्षस्य हानिरिति । अनैकान्तिकखाचार्थापत्तेः, उभयपक्षसमा चेयमापत्तिः। यदि नित्यसाधात् अस्पर्शखादाकाशवच्च नित्यः शब्दः अर्थादापन्नमनित्यसाधात् प्रयत्नानन्तरीयकवादनित्य इति। न चेयं विपर्ययमात्रादेकान्तेनापत्तिः। न खलु वै घनस्य ग्राव्णः पतनमित्यर्थादापद्यते द्रवाणामपां पतनाभाव इति ।। अथाविशेषसमः। एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेरविशेषसम इति। एको धर्मः प्रयत्नान्तरीयकत्वं शब्दघटयोरुपपद्यते। इत्यविशेषे उभयोरनित्यत्वे सर्वस्याविशेषः प्रसज्यते। कथम् ? सद्भावोपपत्तेः। एको धर्मः सद्भावः सर्वस्योपपद्यते, सद्भावोपपत्तेः सव्वैस्याविशेषप्रसङ्गात् प्रत्यवस्थानमविशेषसमः। इत्युपालम्भः। तस्य परिहारः। कचित् धर्मानुपपत्तेः कचिच्चोपपत्तेः प्रतिषेधाभावः। इति । यथा साध्यदृष्टान्तयोः एकधम्मस्य प्रयत्नानन्तरीयकखस्योपपत्तेरनित्यवधर्मान्तरमविशेषः, एवं सवभावाणां सद्भावोपपत्तिनिमित्तधर्मान्तरमस्ति येनाविशेषः स्यात्। तथा अनित्यत्वमेव धर्मान्तरं सद्भावोपपत्तिनिमित्तं भावानां सर्वत्र स्यादित्येवं खल्वेव कल्प्यमाने अनित्याः सर्वे भावाः सद्भावोपपत्तेरिति पक्षः प्रामोति । तत्र प्रतिज्ञार्थव्यतिरिक्तमन्यदुदाहरणं नास्ति, अनुदाहरणश्च हेतुर्नास्ति इति प्रतिज्ञ कदेशस्योदाहरणवमुपपन्नम्। न हि साध्यमुदाहरणं भवति। ततश्च नित्यानित्यभावादनित्यखानुपपत्तिः। तस्मात् सद्भावोपपत्तेः सर्वाविशेषप्रसङ्ग इति निरभिधेयमेतद्वाक्यमिति। सर्वभावाणां सद्भावोपपत्तेरनित्यत्वमिति ब्रुवताऽनुज्ञातं शब्दस्यानित्यत्वं तत्रानुपपन्नप्रतिषेध उपालम्भ इति । अथोपपत्तिसमः। उभयकारणोपपत्तेरुपपत्तिसमः। यद्यनित्यसकारणवं प्रयत्नानन्तरीयकसमुपपद्यते शब्दस्येत्यनित्यः शब्द इति, नित्यखकारणमप्युपपद्यतेऽस्यास्पशखमिति नित्यः शब्द इत्युपपद्यते। उभयस्य अनित्यत्खनित्यत्वस्य कारणोपपत्त्या प्रत्यवस्थानं दूपणवचनमुपपत्तिसम इति । तस्य परिहारः। उपपत्तिकारणाभ्यनुशानादप्रतिषेधः । इति । उभयकारणोपपत्तेरिति ब्रवता नानित्यसकारणोपपत्तेरनित्यवं प्रतिषिध्यते। यदि पतिविध्यते, नोभयकारणोपपत्तिः स्यात्। उभयकारणोपपत्तिवचनादनित्यखकारणोपपत्तिरभ्यनुज्ञायते। तदभ्यनुज्ञानादनुपपन्नः प्रतिषेधः। व्याघातात् प्रतिषेध इति चेत् ? समानो व्याघातः। एकस्य नित्यखानित्यत्वप्रसङ्गं व्याहतं
For Private and Personal Use Only