________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५२
चरक-संहिता। (रोगभिषगजितीयं विमानम् अनुत्पन्ने शब्द प्रयत्नानन्तरीयकलमनित्यवे कारणं नास्ति। तदभावान्नित्यत्वं प्राप्तं नित्यस्य चोत्पत्ति स्ति। इत्यनुत्पत्त्या प्रत्यवस्थानं हेतोदोषवचनम् उपालम्भोऽनुत्पत्तिसम इति ।। अस्य परिहारस्तु। तथाभावादुत्पन्नस्य कारणोपपत्तेने कारणप्रतिषेध इति। तथाभावादुत्पन्नस्येति। उत्पन्नः खल्वयं शब्द इति भवति । प्रागुत्पत्तेः शब्द एव नास्ति । उत्पन्नस्य शब्दभावात्, शब्दस्य सतः प्रयत्नानन्तरीयकलमनित्यसकारणमुपपद्यते कारणोपपत्तेश्चायुक्तोऽयं दोषः, मागुत्पत्तेः कारणाभावादिति ।। अथाहतुसमः। काल्यासिद्धेहेतोरहेतुसमः । इति। हेतुः साधनं, तत् साध्यात् पूर्व पश्चात् सह वा भवेत् ; यदि पूर्व साधनम् असति साध्ये कस्य साधनं स्यात्, अथ पश्चात् तदा चासति साधने कस्येदं साध्यमिति, अथ युगपत् साध्यसाधने द्वयोविद्यमानयोः किं कस्य साधनं किं कस्य साध्यमिति हेतुना न विशिष्यते। अहेतुना साधर्म्यात् प्रत्यवस्थानमुपालम्भः खलु हेतोदोषवचनमिदमहेतुसमाख्यं भवति । अस्य परिहारः। न हेतुतः साध्यसिद्धेस्त्रकाल्यासिद्धिः । इति । न त्रैकाल्यासिद्धिः, कस्मात् ? हेतुतः साध्यसिद्धरिति। निर्वत्तेनीयस्य नि→ त्तिः। विज्ञ यस्य विज्ञानम् । उभयं कारणतो दृश्यते। सोऽयं महान् प्रत्यक्षविषय इति । हेतुतो हि साध्यसिद्धिने हि हेतमन्तरेण किमपि सिधाति। यसिद्धौ यस्य साधनयोग्यता यस्य साध्ययोग्यता तत्तस्य साधनेन तत्साध्यं साध्यते । यदा येन यत् साध्यते तदा तत् तस्य साध्यमुच्यते तत् तस्य साधनञ्च । द्वयन्तु विद्यमानमपि स्वरूपेणैव वर्त्तते। न तु प्राक् साधनारम्भात् साध्यसाधनरूपेण द्वयं गृह्यते। यदा साधयितुमारभते तदा यत् साध्यते तत् साध्यत्वेन गृह्यते येन साध्यते तत् साधनत्वेन गृह्यते, इति हेततः साध्यसिद्धिस्ततस्त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिरिति। यत् तु खलूक्तमसति साध्ये किं कस्य साधन मिति । यत् त निवर्तते यच्च विज्ञायते तस्येति । प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्यापतिषेधः। पूर्व पश्चाद् युगपदा प्रतिषेध इति नोपपद्यते। प्रतिषेधानुपपत्तेः स्थापनाहतुः सिद्ध इति ।। अथार्थापत्तिसमः। अर्थापत्तितः प्रतिपक्षसिद्धेः अर्थापत्तिसम इति। अनित्यः शब्दः प्रयत्नानन्तरीयकवाद घटवदिति स्थापिते पक्षे अर्थापत्त्या प्रतिपक्षं साधयतोऽर्थापत्तिसमः स्यात् । यदि प्रयत्नानन्तरीयकखादनित्यसाधादनित्यः शब्द इति, अत्रार्थादापद्यते नित्यसाधर्म्यात् नित्य इति। अस्ति ह्यस्य नित्येन साधर्म्यमस्पर्शखमिति। अथास्य परिहारः। अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तवादन कान्तिकखाचार्था
For Private and Personal Use Only