________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम्।
१६५१ घटादिनिष्पत्तिदशनात् पीड़ने चाभिचारादप्रतिषेधः। हेतुदूषणमुभयथा न युक्तम्। कत्तु करणाधिकरणानि प्राप्य मृदं घटादिकार्य निष्पादयन्ति । तथा हेतुः साध्यं प्राप्य साधयति। तस्मात् प्राप्तिसमतया हेतोदूषणमसाधु । एवमप्राप्य साधकत्वेऽपि दूषणमसाधु । आभिचारिककर्मणा पीड़ने सति दृष्टमप्राप्य साधकसमिति तस्मादप्राप्तिसमतया हेतोदूषणमसाधु । अथ प्रसङ्गसमप्रतिदृष्टान्तसमौ तु। दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ। साधनस्यापि साधनं वक्तव्यमिति प्रसङ्गे प्रत्यवस्थानं हेतौ दृषणं प्रसङ्गसमः। क्रियाहेतुगुणयोगी क्रियावान् लोष्ट्र इति हेतु पदिश्यते। अनेन कारणेनैवमिति नोपदिश्यते। इति दृष्टान्तस्य कारणानपदेशात् प्रसक्तिसमो हेतुः । न च हेतुमन्तरेण सिद्धिरस्तीति ।। प्रतिदृष्टान्तेन प्रत्यवस्थानाच प्रतिदृष्टान्तसमः। क्रियावानात्मा क्रियाहेतगुणयोगात् लोष्ट्रवदित्युक्ते प्रतिदृष्टान्त उपादीयते। क्रियाहेतगुणयुक्तमाकाशं निष्क्रियम् इति। कः पुनराकाशस्य क्रियाहेतगुणः। वायुना संयोगः संस्कारापेक्षः । वायुवनस्पतिसंयोगवदिति प्रतिदृष्टान्तसमः ।। तत्राद्यस्य परिहारः। प्रदीपादानप्रसङ्गनिवृत्तिवत् तद्विनिवृत्तिः। तयोः प्रसङ्गसम-प्रतिदृष्टान्तसमयोविनिवृत्तिः प्रदीपादानप्रसङ्गनित्तिवत् । अथ के प्रदीपमुपाददते किमर्थं वेति पृष्टः खल्वयं वक्तुम् अर्हति । दिदृक्षमाणाः प्रदीपमुपाददते दृश्यदर्शनार्थमिति। कस्मात् ते प्रदीपान्तरं नोपाददते अन्तरेणापि प्रदीपान्तरं दृश्यते प्रदीपः। तत्र यथा प्रदीपदर्शनार्थ प्रदीपान्तरग्रहणं निरर्थक तथा क्रियाहेतुगुणयोगी क्रियावान् लोष्ट्र इत्यत्र दृष्टान्तस्य कारणापदेशो व्यर्थः । इति ।। अथ दृष्टान्तः किमर्थमुच्यते। अप्रज्ञातस्य शापनार्थमिति । अथ दृष्टान्ते कारणापदेशः किमर्थं दृश्यते। यदि प्रज्ञापनार्थ प्रज्ञातो दृष्टान्तः स खलु लौकिकपरीक्षकाणां यस्मिन्नथें बुद्धिसाम्यं स दृष्टान्त इति । तस्य प्रज्ञापनार्थः कारणापदंशो निरर्थक इति प्रसङ्गसमतया हेतुदूषणमयुक्तमिति ।। प्रतिदृष्टान्तसमस्य परिहारोऽयम्। प्रतिदृष्टान्तहेतुत्वे च नाहेतुदृष्टान्तः। प्रतिदृष्टान्तं ब्रुवता न विशेषहेतुरुपदिश्यते। अनेन प्रकारेण प्रतिदृष्टान्तः साधको न दृष्टान्त इति। एवं प्रतिदृष्टान्तहेतुत्वे सति नाहेतुदृष्टान्त इत्युपपद्यते। स च कथमहेतुन स्यात् ? यद्यप्रतिषिद्धः साधकः स्यादिति। इति प्रतिदृष्टान्तसमतया हेतुदूषणमयुक्तम् ।। अथानुत्पत्तिसमः । प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसम इति । उत्पत्तेः पूर्व कारणाभावादनुत्पत्तिसमः । अनित्यः शब्दः प्रयत्नानन्तरीयकवाद घटवदित्युक्तेऽपर आह-प्रागुत्पत्तेः
For Private and Personal Use Only