________________
Shri Mahavir Jain Aradhana Kendra
1
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
lililin
१६५०
चरक-संहिता। । रोगभिषगजितीयं विमानम् गुणयुक्तो लोष्ट्रः परिच्छिन्नो दृष्टः, न च तथात्मा परिच्छिन्नः क्रियाहेतगुणयुक्तस्तस्मान्न लोष्ट्रवत् क्रियावानिति। न चास्ति विशेषो हेतुः। क्रियावत्साधात् क्रियावता भवितव्यं, न क्रियावद्व धर्येण निष्क्रियेण भवितव्यं विशेषहेत्त्वभावाद्वैधय॑समः। वैधम्र्येण चोपसंहारे निष्क्रिय आत्मा विभुखात्। यथा लोष्ट्रः। क्रियावद् द्रव्यमविभु दृष्टम् न च तथात्मा भवत्यविभुस्तस्मानिष्क्रिय इति वैधय॑ण प्रत्यवस्थानम्। निष्क्रियं द्रव्यम् आकाशं क्रियाहेतुगुणरहितं दृष्टं तथात्मा तस्मानिष्क्रिय इति। न चास्ति विशेषहेतुः। क्रियावद्वधर्मेण निष्क्रियेण भवितव्यम्, न पुनरक्रियवैधर्मेण क्रियावता भवितव्यमात्मनेति विशेषहेखभावाद्वधर्माप्रसमः । अनयोः परिहारः। गोखाद गोसिद्धिवत् तत्सिद्धिः। साधम्मेत्रमात्रेण वैधम्मामात्रेण च साध्यसाधने प्रतिज्ञायमाने स्यादव्यवस्था सा तु धम्म विशेषेणोपपद्यते। गोसाधाद् गोवाज्जातिविशेषाद् गौः सिधाति न तु सास्नादिसम्बन्धात् । ततो न साधर्मसमो हेतुरिति, न च वैधर्मप्रसमोऽपि । निष्क्रिय आत्मा विभुखात् क्रियावद् द्रव्यमविभु दृष्ट यथा लोष्ट्र इति वैधम्मप्रमात्रेण साध्यसाधने प्रतिज्ञायमाने स्यादव्यवस्था सा तु धर्मविशेषेणोपपद्यते गोवाद् गोसिद्धिवत् । अश्वादिवैधाद् गोखादेव गोसिद्धिः, न तु गुणादिभेदात् । इति । ___ अथ प्राप्त्यप्राप्तिसमौ । प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्या अविशिष्टवादप्राप्त्या असाधकखाच प्राप्त्यप्राप्तिसमौ। हेतुः प्राप्य वा साध्य साधयेदप्राप्य वा साधयेदिति। न तावत् साध्यं प्राप्य साधयेत् । हेतोः प्राप्त्यामविशिष्टवादसाधकः स्यात् । द्वयोविद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा भवति। अथाप्राप्य साध्यं साधको न भवति नाप्राप्तः प्रदीपः प्रकाशयतीति। प्राप्त्याः प्रत्यवस्थान प्राप्तिसमः । अमाप्त्याः प्रत्यवस्थानमप्राप्तिसमः। यथायं ज्वरः सन्तापादिति । सन्तापो हतुवरं प्राप्य न साधको भवति द्वयोरविशिष्टतात्। द्वावपि हि वर्तमानत्वेनाविशिष्टौ किं ज्वरः साध्यः सन्तापः साधकः किं सन्तापः साध्यो ज्वरः साधकः। अयं सन्तापो ज्वरवादयं ज्वरो वा सन्तापादिति प्राप्तिसमः । अप्राप्तिसमस्तु पूर्वरूपेण ज्वरो भविष्यतीति साध्यते। तत्र ज्वरमप्राप्य पूर्वरूपाणि कथं भाविज्वरं साधयन्ति। न ह्यप्राप्तो दीपस्तमो हन्ति। ततोप्राप्तिसमो हेतुर्चरो भविष्यति श्रमारतिप्रभृतिभ्य इति । अथानयोः परिहारः ।
For Private and Personal Use Only