________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः ]
विमानस्थानम् ।
१६४६
किञ्चित्साम्यदुपमाने वैधम्र्म्यादुपसंहारसिद्धेतिषध इति । क्रियावानात्मा क्रिया तुगुणयोगाल्लोष्ट्रवदिति । लोट्रो गुरुः क्रियाहेतु गुणवान् वायुलेघुः क्रियादेत गुणवान् भवतु । आत्मा मनसा युक्तत्वेन सक्रियस्तदंशे लोष्ट्रस्य गुरुत्वादिगुणयोगेन साधर्म्यादुपमानत्वे सिद्धे यथा लोष्ट्रो यद्गुणेन क्रियावान् न तथा तद्गुणेन क्रियावानात्मेति वैधम्र्यादुपसंहारसिद्धेविकल्पसमतया हेतोः प्रतिषेधो न युक्त इति परिहारः । एवं साध्यसमोsपि साध्यदृष्टान्तयोर्धम्मं विकल्पादुभयसाध्यत्वाच्च भवति । हेखाद्यवयव सामर्थ्ययोगी धम्मः पैः साध्यः । तं साध्यं दृष्टान्ते प्रसजन् हेतुः साध्यसमो भवति । यथा क्रियावानात्मा क्रियाहेतुगुणयोगाल्लोष्ट्रवदित्यत्र यदि यथा लोष्टस्तथा प्राप्तस्तर्हि यथात्मा तथा लोष्ट्र इति । साध्यश्चायं क्रियावानिति लोष्ट्रोऽपि साध्य इति । अथ नैवम् । न तर्हि यथा लोष्ट्रस्तथात्मेति साध्यसमो हेतुः । तत्र परिहारः । किञ्चित्साधम्र्यादुपमाने वैधम्र्म्यादुपसंहार सिद्धेः अप्रतिषेधः । साध्यातिदेशाच्च दृष्टान्तोपपत्तेः । यथा लोष्ट्र इति किञ्चित्साधर्म्यादुपमानं क्रिया हेतु गुरुत्वादिगुणवत्त्वेन क्रियावत्त्वात् । न तथा आत्मा गुरुत्वादिगुणयोगात् क्रियावान् परन्तु मनसा संयुक्तत्वात् क्रियावानिति वैधम्र्म्यादुपसंहारसिद्धेः । एवं यथा लोष्टस्तथात्मेति साध्यातिदेशेन यथात्मा तथा लोष्ट्र इत्यनेन दृष्टान्तेऽप्युपपद्यमाने साध्यवमनुपपन्नं लोष्ट्रस्य प्रतिशाभावादित्यतो न साध्यसमत्वं दोषो हेतोरिति । साधर्म्यवैधम्र्म्याभ्यामुपसंहारे तद्धर्म्मविपर्य्ययोपपत्तेः साधम्म्येवैधम्र्म्यसमौ । साधर्मेणोपसंहारे साध्यधर्म्मविपय्ययोपपत्तेः साधम्र्मेणैव प्रत्यवस्थानमविशेष्यमाणं स्थापनाहेतुतः साम्समो हेतुः प्रतिषेधः । यथा- क्रियावानात्मा क्रियाहेतुगुणयोगाल्लोष्ट्रवत् । क्रियाहेतुगुणयुक्तो लोष्ट्रो यथा क्रियावान् तथा चात्मा तस्मात् क्रियावान् । एवमुपसंहृते परः साधम्र्मेणैव प्रत्यवतिष्ठते । निष्क्रिय आत्मा विभुनो द्रव्यस्य निष्क्रियत्वात् । यथाकाशम् । यथा विभु चाकाशं निष्क्रियश्च तथा चात्मा विधुस्तस्मा निष्क्रियः । न चास्ति विशेषहेतुः । क्रियावत् साधर्म्यात् क्रियावता भवितव्यम्, न पुनरक्रियसाधम्र्म्यान्निष्क्रियेण भवितव्यमिति विशेषहेत्वभावात् साधर्म्मसमो हेतुः प्रतिषेधः उपालम्भः । इति । एवं वैधम्र्मेणोपसंहारे साध्यधर्म्मविपर्य्ययोपपत्तेर्वधर्मेणैव प्रत्यवस्थानमविशेष्यमाणं प्रतिष्ठापनाहेततो वैधम्र्म्यसमः प्रतिषेध उपालम्भः । यथा- क्रियावानात्मा क्रियाहेतुगुणयोगालोष्टवदिति । इह क्रियादेतु
For Private and Personal Use Only