SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४६ चरक-संहिता। (रोगभिप जितीयं विमानम् अतो विधम्मणा चानेन भवितव्यमित्येष प्रकरणसमहेतुरिति हेतौ दूषणवचनमाह प्रतिपक्षवादी। तत्र तं दोषं परिहरति पूर्वपक्षवादी। यथेत्यादि । नित्यं शरीरस्थे सत्यात्मनि जीवलिङ्गानि प्राणापानादीन्युपलभ्यन्ते। तस्यात्मनः शरीरादपगमान्न जीवलिङ्गान्युपलभ्यन्ते तस्माच्छरीरादन्य आत्मा नित्य इति, न तु यस्मादन्यः शरीरादात्मा तस्मानित्य इति प्रकरणसमखदोषो हेतोः परिहतः। इति । वात्स्यायनेनोदाहृतम् । उभयस्य पक्षद्वयस्य साधम्म्योत् पक्षप्रतिपक्षयोः प्रवृत्ती प्रक्रिया। अनित्यः शब्दः प्रयत्नानन्तरीयकवाद घटवदिति पूर्वपक्षवादी स्वपक्षं प्रवर्त्तयति। द्वितीयस्तु तत्राह अनित्यः शब्दः प्रयत्नानन्तरीयकवादिति प्रयत्नानन्तरीयकत्वं कण्ठायभिघातप्रयत्नानन्तरमभिव्यक्तत्वं शब्दस्य यस्य प्रयत्नानन्तरीयखाभावः स नित्यः। नित्यवैषम्यात अनित्य इति प्रकरणान तिवृत्त्या प्रत्यवस्थानम् । समानश्चैतद्वधम्म्यैऽपि उभयपक्षे साधादनित्यखसाधनप्रक्रियासिद्धः प्रकरणसम इति। तत्र प्रर्वपक्षवादी तं दोपं परिहरति । प्रतिपक्षात प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः। उभयसाधात् प्रक्रियासिद्धिं ब्रुवता प्रतिपक्षात् प्रक्रियासिद्धिरुक्ता भवति। यामयसाधम्यं तत्रैकतरः प्रतिपक्षः इत्येवं सत्युपपन्नः प्रतिपक्षो भवति। प्रतिपक्षोपपत्तेरनुपपन्नः प्रतिषेधो यतः प्रतिपक्षोपपत्तिः प्रतिषेधोपपत्तिश्चेति विप्रतिषिद्धमिति। तत्त्वानवधारणाच प्रक्रियासिद्धिविपर्यये प्रकरणावसानात्। तत्त्वावधारणे ह्यवसितं प्रकरणं भवतीति परिहार उक्तः। अथ संशयसमस्तु पूर्व यो दर्शितः। अयमायुइँदैकदेशमाह किं वयं चिकित्सको न वेति संशये परो व्रयात्-यस्मात् अयमायुइँदैकदेशमाह तस्माचिकित्सक इति। अत्र हेतौ दृषणवचनमुक्त न हि य एव संशयहेतुः स एव संशयच्छेदहेतुर्भवतीति संशयसम इति । तत्रायं परिहारः उक्तो गौतमेन। साधात् संशये न संशयो वैधादुभयथा वा संशयोऽत्यन्तसंशयप्रसङ्गो नित्यखानभ्युपगमाच्च सामान्यस्याप्रतिषेध इति । विशेषाद्वैधादवधाय॑माणेऽर्थ पुरुष इति न स्थाणपुरुषसाधात् संशयोऽवकाशं लभते। एवं वैधाद्विशेषात् अनित्यः शब्दः प्रयत्नानन्तरीयकखात् अवधाय॑माणे शब्दस्यानित्यत्वे नित्यानित्यसाधात् संशयोऽवकाशं न लभते। यदि वै लभेत, ततः स्थाणपुरुषसाधानुच्छेदादत्यन्त संशयः प्रसज्यते। गृह्यमाणे च विशेषे नित्यसाधय संशयहेतुरिति नाभ्युपगम्यते । न हि गृह्यमाणे पुरुषस्य विशेषे स्थाणुपुरुषसाधर्म्य संशयहेतुर्भवतीति For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy