SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः विमानस्थानम्। १६४५ ___ अथ परिहारः। परिहारो नाम तस्यैव दोषवचनस्य परिहरणम्। यथा नित्यमात्मनि शरीरस्थे जीवलिङ्गान्युपलभ्यन्ते तस्यापगमान्नोपलभ्यन्ते तस्मादन्यः शरीरादात्मा नित्यश्च ॥६०॥ विकल्पसमश्च साध्यसमश्च साधम्मासमश्च वैधम्मासमश्च प्राप्तिसमश्चाप्राप्तिसमश्च प्रसङ्गसमश्च प्रतिदृष्टान्तसमश्चानुत्पत्तिसमश्चाहेतुसमश्चार्थापत्तिसमश्चाविशेषसमश्चोपपत्तिसमश्चोपलब्धिसमश्चानुपलब्धिसमश्च नित्यसमश्चानित्यसमश्च कार्यसमश्चेति। तत्र यथा-पूर्व हेखाभासा अहेतवस्त्रयो व्याख्यातास्त इहोदाहर्त्तव्या अपरे च ॥५९॥ गङ्गाधरः-तेषां दोषाणाञ्च परिहारः कत्तव्य इति तदनन्तरं परिहार उद्दिष्टस्तमाह-अथ परिहार इति। परिहारो नामेति । तस्यैव दोषवचनस्य परिहरणमुद्धारः प्रत्यवस्थानमित्यनान्तरमिति। इत्युपालम्भपरिहारौ जातिशब्देन गौतमेनोक्तौ। तत्र परिहारश्चोत्तरविशेषः। तद् यथा-गौतमोक्ता जातिः। साधम्म्यवैधाभ्यां प्रत्यवस्थानं जातिरिति। प्रयुक्ते हि हेतो यः प्रसङ्गो जायते सा जातिः। स च प्रसङ्गः।साधम्म्यवैधयाभ्यां प्रत्यवस्थानम् उपालम्भः प्रतिषेधश्चेति द्वयी जातिः। उदाहरणसाधात् साध्यसाधनं हेतुरित्यस्योदाहरणसाधम्र्येण प्रत्यवस्थानम्। यत्रोदाहरणवैधात् साध्यसाधनं हेतुस्तस्योदाहरणवैधम्मप्रण प्रत्यवस्थानम् । प्रत्यनीकभावाज्जायमानोऽर्थ इत्यतो जातिरित्युच्यते। तद्विकल्पाजातिबहुखम् । तस्य साधम्र्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पाजातिबहुखम् । तद विभज्यते । साधम्र्यवैधयोत्कर्षापकर्षवर्ध्यावर्ण्य विकल्पसाध्यप्राप्ताप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्ति संशय-प्रकरणहेलर्थापत्यविशेषोपपत्तापलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः। ताः खल्विमा जातयः स्थापनाहेती प्रयुक्त चतुर्विंशतिः प्रतिषेधहेतव उपालम्भाः। एषां क्रमेण लक्षणान्युक्तानि गौतमेन तानि प्रकरणसमादिक्रमेण दश्यन्ते। तद् यथा-उभयसाधात् प्रक्रियासिद्धेः प्रकरणसमो हेतुरुपालभ्यते। उभयस्य पक्षद्वयस्य साधात् पक्षप्रतिपक्षयोः प्रवृत्ती प्रक्रियासिद्धेः प्रकरणसमो हेतुः। यथा पूर्वपक्षवादी भाषते। अन्यः शरीरादात्मा नित्य इति। तत्र प्रक्रिया यस्मादन्यः शरीरादात्मा तस्मान्नित्यः। शरीरं ह्यनित्यम् हेत्वाभासाः। यथा-'नित्यमात्मनि' इत्यादिना प्रकरणसमत्वेनोक्तहेतौ दोषमुद्धरति । नित्यम् इति सर्वदा। जीवलिङ्गानि प्रतिसन्धानस्मरणादीनि। तस्यापगमान्नोपलभ्यन्त इत्यनेन For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy