________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४४
वरक-संहिता। (रोगभिषजितीयं विमानम् ___ अथोपालम्भः। उपालम्भो नाम हेतोर्दोषवचनम् । यथा पूर्वमहेतवो हेत्वाभासा व्याख्याताः॥५६॥ निग्रहस्थानप्राप्तं न निगृह्य पक्षान्तरितं परिगृह्य पश्चान्निगृहीते तस्मिन् परे तस्य कालातीतत्वात् तत् निग्रहवचनं न समर्थ भवतीति । गौतमेनाप्युक्तं हेखाभासेषु । कालात्ययापदिष्टः कालातीतः। इति । व्याख्यातञ्चैतद वात्स्यायनेन। कालात्ययेन युक्तो यस्यार्थस्यैकदेशोऽपदिश्यमानस्य स कालात्ययापदिष्टः कालातीत उच्यते। निदर्शनश्च। नित्यः शब्दः संयोगव्यङ्गाखात् रूपवत् । प्राक अर्द्धश्च व्यक्तरवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते। तथा च शब्दोऽप्यवस्थितो वीणादण्डसंयोगेन व्यज्यते, दारुपरशुसंयोगेन वा। तस्मात् संयोगव्यङ्गयखान्नित्यः शब्द इत्ययमहेतुः, कालात्ययापदेशात्। व्यञ्जकस्य संयोगस्य कालं न व्यङ्गयस्य रूपस्य व्यक्तिरत्येति। सति प्रदीपघटसंयोगे रूपस्य ग्रहणं भवति। न निवृत्ते संयोगे रूपं गृह्यते। निवृत्ते दारुपरशुसंयोगे दूरस्थेन शब्दः श्रूयते। विभागकाले सेयं शब्दव्यक्तिः, संयोगकालमत्येति। न च संयोगनिमित्ता भवति। कस्मात् ? कारणाभावाद्धि का भाव इति । एवमुदाहरणसाधर्म्यस्याभावादसाधनमयं हेतुर्हेखाभास इति। अवयवविपर्यासवचनं न सूत्रार्थः। कस्मात् ? विपर्यासेनोक्तो हेतुरुदाहरणसाधात् तथा वैधात् साधनं हेतुलक्षणं न जहाति। अजहद्धतुलक्षणं न हेवाभासो भवति। अवयवविपर्यासवचनमप्राप्तकालमिति निग्रहस्थानमुक्तम् । तदेवेदं किं पुनरुच्यते। इत्यतस्तन्न सूत्रार्थः। इति। हेतुमात्रविषयो यः कालातीतः स एवेह हेखाभासेऽभिहितः। साधारणविषयस्तु तन्त्रेऽस्मिन् पृथगुक्तं कालातीतमिति न विरोधः ॥ ५८॥
गङ्गाधरः-एवं कालातीतानन्तरमुपालम्भो शेय इति तदुद्देशः कृतः उपालम्भः। अथोपालम्भ इति । उपालम्भो नाम स यद्यत् खल देतोर्दोषवचनं प्रत्यक्षादिहेतुरुपलब्धिकारणमुक्तं हेतुदृष्टान्तोपनयनिगमनानि स्थापनायां यथावर्ण्यसमश्व विकल्पसमश्च साध्यसमश्च स चोपालम्भो बहुविधः । तद् यथाप्रकरणसमश्च संशयसमश्च वर्णप्रसमश्वावर्णप्रसमश्चोत्कर्षसमश्चापकर्षसमश्च
उच्यते। निग्रहप्राप्तमिति निग्रहणीयं ज्ञातम्। हेतोर्दोषवचनमित्यनेन कालात्ययापदिष्टासिद्धयोरपीहानुक्तयोर्ग्रहणं कर्त्तव्यम्। उदाहरणार्थन्तु अहेतव उक्ताः। हेतुवदाभासन्त इति
For Private and Personal Use Only