________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः विमानस्थानम्।
१६४३ तत्र वर्ण्यः शब्दो बुद्धिरपि वा, तदुभयवाविशिष्टत्वाद्वर्ण्यसमोऽप्यहेतुः ॥ ५७॥ ____ अथातीतकालम्। अतीतकालं नाम यत् पूर्व वाच्यं तत् पश्चात् उच्यते, तत्कालातीतत्वादग्राह्य भवतीति। परं वा निग्रहप्राप्तमनिह्य परिगृह्य पक्षान्तरितं पश्चान्निग्रहीते तत् तस्यातीतकालत्वान्निग्रवचनमसमर्थं भवतीति ॥८॥ स वण्यसमा नामाहेतुः। वय॑स्तु साध्यधम्र्मेण धर्मी दृष्टान्तश्च तयोरविशेषो हेतुर्वर्ण्यसमो हेतुरहे तुर्भवति । तदुदाहरति-यथेत्यादि। अस्पर्शबाद युद्धिरनित्या शब्दवदिति। इहानित्यवधर्मेण वण्र्यो दृष्टान्तः शब्दस्तथा नित्यत्वेनैव धम्मेण वर्ष्या बुद्धिश्च तदुभयवां विशिष्टत्वात् खल्वस्पर्शत्वं हेतुः वण्यसमः। अस्पर्श खमप्यनित्यमिति । गौतमेनाप्युक्तम्। साध्यदृष्टान्तयोः साधाद वर्ण्यसम इति। साध्यसमश्वोक्तः। खाद्यवयवसामर्थ्य योगी धर्मः साध्यः। तं दृष्टान्ते प्रसजतः साध्यसमः इति जातिषु, हेवाभासेष च साध्याविशिष्टः साध्यखात् साध्यसमः। द्रव्यं छायेति साध्यम् । गतिमत्त्वादिति हेतुः। साध्येनाविशिष्टः साधनीयखात् साध्यसमः । अयमप्यसिद्धसात् साध्यवत् प्रज्ञापयितव्यः। साध्यं तावदेतत् किं पुरुषवच्छायापि गच्छति आहोस्विदावरकद्रव्ये संसर्पति ? आवरणसन्तानादसनिधिसन्तानोऽयं तेजसो गृह्यते इति सर्पता खल द्रव्येण यो यस्तेजोभाग आब्रियते तस्य तस्य सन्निधिरेवावच्छन्नो गृह्यते इति। आवरणन्तु प्राप्तिप्रतिषेध इति । एष साध्यसमोऽपि वर्ण्यसम इत्य विरोधः । इति त्रयोऽहेतव एव हेतुमात्रदोषवाद हेखाभासा इष्यन्ते एभ्यस्खपरे दोषा न हेतुमात्रस्येति पृथगुच्यते ॥५७॥
गङ्गाधरः-अतीतकालमित्युद्दिष्टं यत् तदाह-अथातीतकालमिति । अतीतकाल नाम तत् यत् पूर्व वाच्यं तत्पश्चादुच्यते। तदुक्तं कालातीतखादग्राह्य भवतीति साधारणदोषः। एवं परं वा प्रतिवादिनं वादिनं वा निग्रहमाप्तं समः, वयः शब्द इति अस्पर्शत्वयोगादनित्यत्वेन शब्दोऽपि साध्यः । न च साध्यो दृष्टान्तो भवति। उभयवाविशिष्टत्वादित्युभयत्र दृष्टान्ते वय॑ च वय॑स्य साध्यस्य साध्यत्वेनाविशिष्टत्वादित्यर्थः ॥ ५७॥
चक्रपाणिः-यतू पूर्व वाच्यं तत् पश्चादच्यते इति, यथा-निगमनमभिधाय पश्चात् प्रतिज्ञा
For Private and Personal Use Only