________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४२
चरक-संहिता। रोगभिषजितीयं विमानम् आह, किं वयं चिकित्सकः स्यान्न वेति संशये परो यात् यस्मादयमायुवेदैकदेशमाह तस्माञ्चिकित्सकोऽयमिति, न च संशयच्छेदहेतुं विशेषयति। एष चाहेतुर्न हि य एव संशयहेतुः स एव संशयच्छेदहेतुर्भवति।सवार्यसमोनामाहेतुर्यों हेतुर्वर्ण्याविशिष्टः, यथा कश्चिद्यादस्पर्शवाद बुद्धिरनित्या शब्दवदिति। हेतुरिति समानधम्म एव हेतुत्वेन यत्र गृह्यते स संशयसमो हेतुरहेतुर्भवति । तदुदाहरति-यथेत्यादि। कश्चिद्वदति अयमायुर्वेदैकदेशमाह किं स्वयं चिकित्सकः स्यान्न वेति संशयः । कस्मात् ? कोऽप्यचिकित्सक आयुव्वदैकदशं कियन्तमंशमायुव्वैदस्य जानाति चिकित्सकोऽपि जानातीत्यतः संशयः । तत्र परो ब्रयात् यस्मादित्यादि। आयुवदैकदेशवक्तखादयं चिकित्सक इति। एवं ब्रवाणः परस्तु संशयच्छेदहेतु न विशेषयति विशेषाभावात् संशयो नापैति। तस्मादेष हेतुरहे तुः। कस्मादित्यत आहन हीत्यादि। गौतमेनाप्युक्तं जातिषु। सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधात् संशयसमः इति । व्याख्यातञ्च वात्स्यायनेन । अनित्यः शब्दः प्रयत्नानन्तरीयकखात् घटवदित्युक्ते हेतौ संशये न प्रत्यवतिष्ठते। सति प्रयत्नानन्तरीयकत्वे अस्त्येवास्य नित्येन सामान्येन साधर्म्यम् ऐन्द्रियकत्वमस्ति च घटेनानित्येन। अतो नित्यानित्यसाधादनिवृत्तः संशय इति संशयसमस्योदाहरणं गौतमेन दर्शितं न तु संशयसमस्य लक्षणमिदम् उक्तम्। तस्मादिहोक्तोदाहरणेन सह विरोधो नाशङ्काः। एवं बहून्युदाहरणानि द्रष्टव्यानि समानानेकधर्मोपपत्त्यादिहेतुभ्यः संशये। इति।। नन्वन्यः शरीरादात्मा नित्य इति प्रकरणसमो हेतुः साध्यसम एव कथं पृथक् उक्त इत्यत आह---स वर्यसमो नामाहेतुरित्यादि। यो हेतुर्वया॑विशिष्टः सिध्यति । चार्वाकपले तु शरीरमेव चेतनमनित्यञ्च ति, तं प्रत्युभयमपि साध्यम्, न साध्यं साधनं भवति, असिद्धत्वादिति भावः। अयमायुइँदैकदेशमाहेति आयुर्वेदैकदेशाभिधानं चिकित्सकाचिकित्सकगमकत्वेन संशयहेतुः, एकदेशकथनं हि शास्त्रानभ्यासेऽपि कुतश्चित् श्रवणादपि भवतीति भावः। न विशेषयतीति न संशयच्छेदहेतु विशिष्टं दर्शयतीत्यर्थः, एष चाहेतुरिति यथोक्तो हेतुरहेतुः संशयाच्छेदक इत्यर्थः। वयेन साध्येन दृष्टान्तोऽप्यसिद्धत्वेन सम इति वर्ण्य
* संशयहेतुमिति चक्रः।
For Private and Personal Use Only