SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः विमानस्थानम् । १६४१ इति। तत्र प्रकरणसमो नामाहेतुः, यथान्यः शरीरादात्मा नित्य इति । परो याद यस्मादन्यः शरीरादात्मा तस्मान्नित्यः। शरीरं ह्यनित्यमतो विधर्मिणा चानेन भवितव्यमित्येष चाहेतुः, न हि य एव पक्षः स एव हेतुरिति । संशयतमो नामाहेतुः पुनर्य एव संशयहेतुः स एव संशयच्छेदहेतुः। यथाऽयमायुर्वेदकदेशम् अथ प्रकरणसमं हेतु दर्शयति । तत्र प्रकरणसमो नामाहेतुरिति । यस्माद्धेतुतः प्रकरणं चिन्त्यते निर्णयार्थमनेन कारणेनैवमिदमित्युपदिश्यते, हेतुः स प्रकरणसमो हेतुरहेतुरुच्यते साधकखाभावात्। उक्तश्च गौतमेन। यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः इति । व्याख्यातश्च वात्स्यायनेन। विमर्शाधिष्ठानौ पक्षप्रतिपक्षावनवसितो प्रकरणम्। तस्य चिन्ता विमर्शात् प्रभृति प्रा निर्णयात् यत् समीक्षणं सा जिज्ञासा यत्कृते स निणेयार्थ प्रयुक्त उभयसाम्यात् प्रकरणमतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पते । विशानन्तु अनित्यः शब्दो नित्यधर्मानुपलब्धेरिति। अत्रानुपलभ्यमाननित्यधर्मकम नित्यं दृष्टं स्थाल्यादि। या तु विमर्शस्य विशेषापेक्षिता। उभयाविशेषानुपलब्धिश्च सा न प्रकरणं प्रवर्त्तयति। कथं ? विपर्यये हि प्रकरणनिवृत्तेः। यदि नित्यधर्मः शब्द गृह्यते न स्यात् प्रकरणसमम् । यदि चानित्यधर्मो गृह्य त एवमपि निवर्त्तत प्रकरणसमम्। सोऽयं हेतुरुभो पक्षौ प्रवत्तेयनन्यतरस्य निणेयाय न प्रकल्पते। इति । इह तूदाहरतियथेत्यादि। अन्यः शरीरादात्मा नित्य इति पक्षे परो ब्रूयात् । इह खलु अस्मात् प्रकरणं चिन्त्यते। यस्मादित्यादि। शरीरादन्यसान्नित्य आत्मा। तत्र प्रकरणमिदं शरीरं ह्यनित्यमतः शरीराद् वैधयेवानन्य इति शरीरान्यत्वं नित्यवमेव ततः प्रकरणसमो हेतुने हेतुर्भवति । कस्मादित्यत आह-न हीत्यादि। हि यतो य एव पक्षः स एव हेतुर्भवति । आत्मनित्यवं पक्षस्तदेव शरीरान्यवं हेतुरिति स्वस्थ स्थापनायां स्वस्य कारणत्वं न भवतीति ।। अथ संशयसममाह-संशयसमो नामाहेतुरिति । य एव संशयहेतुः स एव संशयच्छेद.. पक्षः, तेन समः प्रकरणसमः। अन्यः शरीरादात्मा नित्य इति प्रतिज्ञायां शरीरादन्यत्वं बोध्यम्, अतो विधर्मिणेति शरीरादनियाद विधर्मिगा नित्येनेत्यर्थः । य एवं पक्ष इत्यनेनान्यत्व शरीरादारमन इति सिमिति दर्शयति, सति हि नित्यत्वे चेतनाधारस्य शरीरादन्यत्वमपि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy