________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४०
चरक-संहिता। (रोगभिषजितीयं विमानम् अथ अहेतुः। अहेतुर्नाम प्रकरणसमः संशयसमो वर्णासमः
भविष्यतीत्यसम्भूताथकल्पना सामान्यच्छलमिति। गौतमेनाप्युक्तम् । सम्भवतो. ऽर्थस्याति सामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छलमिति। व्याख्यात
चैतद वात्स्यायनेन। अहो खल्वसौ ब्राह्मणो विद्याचरणसम्पन्न इत्युक्ते कश्चिदाह-सम्भवति हि ब्राह्मणे साधारणे विद्याचरणसम्पत इत्यस्य वचनस्य विघातोऽथे विकल्पापपत्त्या असम्भूतार्थकल्पनया क्रियते। यदि ब्राह्मणे विद्याचरणसम्पत् सम्भवति तदा ब्रात्येऽपि सम्भवेत् ; ब्रात्योऽपि ब्राह्मणो ब्राह्मणवस्यातिसामान्यस्य योगात। ततो ब्रात्योऽप्यस्त विद्याचरणसम्पन्न इति । यद्विवक्षितमथेमामोति चातिशयमेति च तदपि सामान्यम् । यथा ब्राह्मणत्वं विद्याचरणसम्पदं कचिदामाति कचिदतिशयञ्चैति, तस्मात् सामान्यनिमित्तं छलं सामान्यच्छलमिति। एषां परिहारेण प्रत्यवस्थानमुन्नयमिति। इति च्छलं व्याख्यातम् ॥५६॥
गङ्गाधरः-एवं वाद च्छलवचने हेतुरप्यहेतुर्भवति ततोऽहेतुर्विज्ञेय इत्यत उद्दिष्टमहतुरिति यत् तदाह --अथाहेतुरिति। अहतुर्नामेत्यादि। हेतुलक्षणाभावात हेतुसामान्यात् हेतुवदाभासमानो हेतुरहतुरुच्यते। स च भिद्यते। अहेतुर्नामेत्यादि। प्रकरणसमः संशयसमो वयंसम इति त्रिविधोऽहेतुर्नाम। गौतमेन तु पञ्चविधो हखामास उक्तः। सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेलाभासाः इति । तेषां सव्यभिचारस्य हतुदोषत्ववदन्यत्र च दोषखातुमात्रदोषवाभावाच तथा विरुद्धस्य चातीतकालस्य च साधारणदोषखात् पृथगिहोक्तिः। वयंसमस्तु साध्यसम एव। इहोक्तः संशयसमस्तु न गौतमेनोक्त इति विरोधो नाशङ्काः प्रतिषेधहतुषु जातिसंज्ञेषु चतुविंशतौ संशयसमवय॑समयोगो तमेनाप्युक्तखात्। वात्स्यायनस्तु प्रकरणसमव्याख्याने प्रोवाच। यत्र समानो धम्मः संशयकारणं हेतुलेनोपादीयते स संशयसमः सव्यभिचार एवेति ततो न विरोधः। सव्वं तद्वग्राख्यातमुत्तरव्याख्याने।।
सामान्ययोगादर्थान्तरकल्पना सामान्यच्छलमिति। सत्सत्प्रशमायेति सता सतः प्रशमः क्रियते इति। त इति तव मत इति कृत्वा वादी पूर्वपक्षं करोति, तेन, अविवक्षितेन सत्त्वसामान्येन प्रत्यवस्थानात् सामान्यच्छलं भवति ॥ ५६ ॥
चक्रपाणिः-अहेतुरसाधकहेतुरित्यर्थः। प्रक्रियते साध्यस्वेनाधिक्रियत इति व्युत्पस्या प्रकरणं
For Private and Personal Use Only