________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टम अध्यायः ]
विमानस्थानम् ।
१६३६
भिषग् ब्रूयान्न मया नवाभ्यस्तं तन्त्रम्, अनेकधाभ्यस्तं तन्त्रम् । इति वाक्छलम् । सामान्यच्छलं नाम यथा-व्याधिप्रशमनायौषधमित्युक्ते परो ब्रूयात् सत् सत्प्रशमनायेति किं नु भवानाह ? सद्रोगः सदौषधं यदि च सत् सत्प्रशमनाय भवति तत्र सत्कासः सत्यः सत्सामान्यात् कासः चयप्रशमनाय भविष्यतीति । एतत् सामान्यच्छलम् ॥ ५६ ॥
तत्रमनेकधाभ्यस्तं तत्रम् । इति वाक्छलम् । अत्र समासेन नार्थविशेषो विग्रहे तु भवति विशेषः । नवाभ्यस्ते उपचारो नवशब्दस्य, तेन नवं नूतनमभ्यस्तं तन्त्रं यस्येति विग्रहः । तत्रोपचरितेऽर्थेऽर्थान्तरकल्पना मुख्यया वृत्त्या नवशब्देन नवसङ्ख्या । तत आह- एकतत्रोऽहम् । इत्युपचारच्छलं वाक्छलमेवोदाहरणेनानेन ज्ञापितम् । तत्राप्युपचरितार्थे नवाभ्यस्ते नवशब्दस्यार्थान्तरं कल्पयित्वा भिषगब्रवीत् । न नवाभ्यस्तं मे तत्रमपि त्वनेकधाभ्यस्तमिति वाक्छलम विशेषे शब्दे वाचि च्छलं वाक्छलमिति । एवमिह विनोपचारादपि वाक्छलं विद्यते । नवतत्रोऽयं भिषगति नूतनतत्रोऽयमिति वक्तुरभिप्रायार्थः । तत्र भगर्थान्तरं कल्पयिलाह नाहं नवतन्त्र एकतत्रोऽहमेकसंहितामधीतवान् । तत्र परो ब्रूयात् नाहं नव ते तत्राणीत्यब्रवं नूतनतत्रो भवानिति त्वत्रवम् इति । तत्रापि भिवगर्थान्तरं कल्पयिवाह-न मे तन्त्रं नूतनं परत्वार्थं प्राचीनम् । इति वाक्छलम् ।
अथ सामान्यच्छलमाह - सामान्यच्छलं नामेत्यादि । सम्भवदर्थस्यातिसामान्ययोगादसम्भूतार्थ कल्पना । तद् यथा यथेत्यादि । व्याधिप्रशमनायोपधमित्युक्ते परः सम्भवदर्थस्यातिसामान्ययोगादसम्भूतार्थं कल्पयिला ब्रूयात् सत्सत्प्रशमनायेति भवानाहेति । सर्व्वं खल सत् सत्तावत्त्वादित्यतिसामान्यं सत्ता तत्र सत्पदार्थः सम्भवति व्याधिषु चौषधेषु च । तदाहसद्रोगः सदौषधमिति, तथाविधोऽर्थः खलु सत्प्रशमनाय सदित्येष चेदिष्ट - स्तदा सत्कासः सत्क्षयः सत्सामान्यात् । तहि किं कासस्ते क्षयप्रशमाय शब्दो मुख्यः सन् मनचे वर्त्तते, उपचारात् तु मञ्चस्थेषु पुरुषेषु, 'मञ्च' शब्दप्रयोगे सति कथमचेतना मञ्चाः क्रोशन्तीति आक्षेपो वाक्छल एव प्रविशतीति भावः । अत्र वाछलमित्यादि वाक्यं स्वामान्यच्छल लक्षणसंयुक्तं न्यायोक्तलक्षणमेव ज्ञेयम्, यथासम्भवं सामान्यशब्दोक्ते ऽर्थे ह्यर्थान्तरस्थापि
For Private and Personal Use Only