________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६३८
चरक-संहिता। रोगभिषगजितीयं विमानम् वाक्छलं नाम यथा कश्चिद् बयानवतन्त्रोऽयं भिषगिति । अथ भिषक् ब्रूयान्नाहं नवतन्त्र एकतन्त्रोऽहमिति। परो ब्रूयान्नाहं ब्रवीमि नव तन्त्राणि तवेति, अपि तु नवाभ्यस्तं ते तन्त्रमिति ।
वाक्छलमेवोपचारच्छलं तदविशेषात् । इति। न वाक्छलादुपचारच्छलं भिद्यते, तस्या अप्यर्थान्तरकल्पनाया अविशेषात्। यतः, धम्मे विकल्पनिर्देशेऽथेसद्भावप्रतिषेध उपचारच्छलम्। अभिधानस्य धम्मौ यथाथप्रयोगः । धम्मे विकल्पोऽन्यत्र दृष्टस्य धम्मैस्यान्यत्र प्रयोगः। तस्य निर्देशे धर्मविकल्पनिर्देशऽर्थसद्भावप्रतिषेध उपचारच्छलम् । यथा मश्चाः क्रोशन्तीति मञ्चस्थेषु पुरुषेषूपचारस्तेनार्थसद्भावेन प्रतिषेधः क्रियते। मञ्चस्थाः पुरुषाः क्रोशन्ति न मञ्चा इति। का पुनरत्रार्थविकल्पोपपत्तिः ? अन्यथाप्रयुक्तस्यान्यथार्थकल्पनं भक्त्या खलु लक्षणया प्रयोगे मञ्चाः क्रोशन्तीत्यत्र प्रधानेन मुख्यया वृत्त्याभिधया शक्त्या कल्पनं न मञ्चाः क्रोशन्ति मञ्चस्थाः पुरुषास्तु क्रोशन्तीति। उपचारविषयं छलमुपचारच्छलमुपचारान्नीतार्थः। सहचरणादिनिमित्तेनातद्भावे तद्वदभिधानमुपचार इति। इहापि खल्वविशेषाभिहितेऽर्थे वक्तरभिप्रायादर्थान्तरकल्पना भवतीति वाक्छलमेव। मञ्चाः क्रोशन्तीत्युक्ते वक्तरभिप्रेतोऽर्थी मञ्चस्थाः पुरुषाः क्रोशन्तीत्युपचारात् । तदविशेषेण पदेन मञ्चा इत्यनेनाभिहितेऽर्थं वक्तुरभिप्रायविषयमश्वस्थपुरुषात् अर्थान्तरकल्पना मुख्यार्थमञ्चकल्पना वाक्छलमेव भवतीत्युपचारच्छलं वाकछलमेव नातिरिक्तमिति।
तत्र वाक्छलमुदाहरति-तत्र वाक् छलं नामेत्यादि । कश्चिद् ब्रू यानवतत्रोऽयं भिषगिति । तत्र नवतन्त्र इति पदेन नवाभ्यस्तं तन्त्रं यस्येति वक्तरभिप्रायविषयार्थादर्थान्तरं कल्पयिखा भिषम् ब्रू यात्-नाहं नवतन्त्रः, एकतन्त्रोऽहमिति। एकमेव तन्त्रं ममेति । तत्रापि परः स्पष्टं तदर्थ ब्र यात्। नाई ब्रवीमि नव तत्राणि तवेति, अपि तु नवाभ्यस्तं ते तत्रमित्यव्रवम्। तत्रापि भिषक् अभिप्रेतादर्थादन्यार्थ कल्पयिता ब्रूयात्, न मया नवाभ्यस्तं यभिप्रेतादर्थादर्थान्तरं परिकल्प्य परवचनोपघाताय प्रतिकल्प्यते। यदुक्तं न्याये-"वचनविघातो. ऽर्थविकल्प उपचारच्छलम्" इति। अत्र वाक्छलमेवोपचारच्छरों न्यायोक्तं सम्भवति। सामान्यशब्दोक्ते ह्यर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाकलं, तेन, मञ्चाः क्रोशन्तीति अनापि 'मत्र'
For Private and Personal Use Only