________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः विमानस्थानम् ।
१६३७ अथ वाक्यप्रशंसा। वाक्यप्रशंसा नाम यथा खल्वस्मिन्नर्थे त्वनानमनधिकमर्थदनपार्थकमविरुद्धमधिगतपदार्थञ्चेति यत् तद्वाक्यमननुयोज्यमिति प्रशस्यते ॥ ५५ ॥
अथ च्छलम्। छलं नाम परिशठमर्थाभासमनर्थकं * वाग्वस्तुमात्रमेव । तद् द्विविधं वाकछलं सामान्यच्छलञ्च। तत्र
गङ्गाधरः- अथ वाक्यं कीदृशमदुष्टमित्यत आह-अथ वाक्यप्रशंसेति । वाक्यप्रशंसा नामेत्यादि। अस्मिन्नर्थ खल्विदं वाक्यमन्यनं निरुक्तन्यूनखदोषरहितमस्मिन्नेवार्थेऽनधिकमधिकरदोषहीनम् अस्मिन्नेवार्थेऽथैवदानर्थक्य. हीनम् तथास्मिन्नेवार्थेऽनपाथेकमपार्थकलदोषहीनम् । तथैवास्मिन्नथेऽविरुद्धं दृष्टान्तविरुद्धादिविरुद्धदोषरहितम्। न त्वेतावन्मात्रं वाक्यं प्रशंसन्ति पण्डिताः । तहि कीदृशं वाक्यमित्यत आह-अधिगतपदार्थञ्चेति। अधिगताः सम्यग्ज्ञातुमर्हाः पदार्था यत्र वाक्ये तत् । वाक्यमननुयोज्यमित्यस्मात् प्रशस्यते कुशलैन खन्यूनादिकमपि गूढार्थकं वाक्यमननुयोज्यमपि प्रशस्यते दुर्बोधतात् ॥५५॥ __ गङ्गाधरः-तथा सति प्रशस्तवाक्येऽपि वादी च्छलं करोतीत्यतश्छलमुद्दिष्टं यत् तदाह-अथ च्छलमिति। किं पुनश्छलमुच्यते इत्यत आह-छलं नामेत्यादि। छलं नाम तद् यत् परिशठमर्थाभासमनथेकं वाग्वस्तुमात्रमेवेत्येतैः शब्दोऽर्थोऽभिधीयते। उक्तञ्च गौतमेन। वचनविघातोऽथेविकल्पोपपत्त्या च्छलमिति। व्याख्यातच वात्स्यायनेन-न सामान्यलक्षणे च्छलं शक्यमुदाहत्तम्, विभागे तूदाहरणानि भवन्ति । विभागश्च । तत् त्रिविधं वाकच्छलं सामान्यच्छलमुपचारच्छलञ्चेति। तेषां मध्ये—अविशेषाभिहितेऽथ वक्तरभिप्रायादर्थान्तरकल्पना वाक्छलम् । तद् यथेहापि विभज्योदाहरति । तद द्विविधमिति । वाक्छलं सामान्यच्छलञ्चेति । वाक्छले हुउपचारच्छलस्य अविशेषाद द्विविधं छलं वाक्छलं सामान्यच्छलञ्चेति। तत्र गौतमेनोक्तं संज्ञा समयकृता ज्ञेया। एवं याज्ञिकानाम् 'आलभ्य'संज्ञा समयकृता, तत्र यदि स्वसमयविपरीतमभिदधाति तदा समयविरुद्धो भवति । अननुयोज्यमिति नामुयोगाहम् ॥ ४९-५५ ॥
चक्रपाणिः-छलमित्यादि। परिशठमिति वचनाप्रवृत्तम्। अर्थवदिवाभासोऽर्थाभासः । एतदेव विवृणोति-अपार्थकमित्यादि। अपगतसमीचीनार्थत्वेन वाग्वस्तुमात्रमित्यर्थः। छलं
* अनर्थकमित्यत्र अपार्थकमिति चक्रः ।
For Private and Personal Use Only