________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६३६
चरक-सहिता ।
इति । तत्रायुर्वैदिकसमयश्चतुष्पादं भेषजमिति । याज्ञिकसमयः आलभ्या यजमानैः पशव इति । मोजशास्त्रिकसमयः सर्व्वभूनेष्वहिंसेति । तत्र स्वसमयविपरीतमुच्यमानं विरुद्धं भवति । इति वाक्यदोषाः ॥ ५४ ॥
रोगभिषगांजतीय विमानम्
1
यथा चतुष्पादं भेषजमिति । तत्राह दैवयुक्तिव्यपाश्रयमेव भेषजमिति । आयुर्वेदिक समयविरुद्धं यद्यप्यत्रापि पूर्व्वमुक्तम्- प्रशाम्यत्यौषधैः पृथ्व दैवयुक्तिव्यपाश्रयैरिति तन्न कृत्स्नभेषजवचनं वातादिशारीरदोषमशमनौषधवचनत्वात् । याज्ञिकसमयः - आलभ्याः पशव इति, तद्विरुद्धन्तु न यज्ञ े पशव आलभ्या इति । मोक्षशास्त्रिकसमयस्तु सव्वंभूतेष्वहिंसेति तत्र विरुद्धं यज्ञेषु हिंसा काय्यैति । स्वर्गादिसाधनत्वेन बन्धहेतुत्वात् इति । तत्र तत्र स्वसमयविपरीतमुच्यमानं समयविरुद्धं भवतीति । साधारणविरुद्धमिहोक्तं गौतमेन विरुद्धवं हेतुदोष उक्तः स चाभ्युपगमसिद्धान्तविरुद्धः । तद् यथासिद्धान्तमभ्युपेत्य तदूविरोधी विरुद्धः । इति यो हेतुः सिद्धान्तमभ्युपेत्य तं सिद्धान्तं विरुणद्धि स तद्विरोधी हेतुर्विरुद्ध उच्यते । अभ्युपेतं हि सिद्धान्तं व्याहन्तीति । यथा - सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधात् । अपेतोऽप्यस्ति विनाशप्रतिषेधात् न नित्यो विकार इत्युपपद्यते । इत्येवं हेतुव्यक्तेरपेतोऽपि विकारोऽस्तीत्यनेन स्वसिद्धान्तेन विरुध्यते । कथम् ? व्यक्तिरात्मलाभः । अपायः प्रच्युतिः । यद्यात्मलाभात् प्रच्युतो विकारोऽस्ति, नित्यत्वप्रतिषेधो नोपपद्यते । यद्व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वमिति । नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात् प्रच्युतेरुपपत्तिः । यदात्मलाभात् प्रच्यवते तदनित्यं दृष्टम् । यदस्ति न तदात्मलाभात् प्रच्यवते । अस्तित्वञ्चात्मलाभात् प्रच्युतिरिति विरुद्धावेतौ सह सम्भवतः । इति । सोऽयं हेतुर्य सिद्धान्तमाश्रित्य प्रवर्त्तते तमेव व्याहन्तीति विरुद्धो हेतुरिति । नैतद्विरुद्धलक्षणं साधारणविषयं केवलहेतु विषयतयैव हेखाभासे गौतमेनोक्तमिति । इति वाक्यदोषा व्याख्याताः ॥ ५४ ॥
For Private and Personal Use Only
यथा शीतं जलं तापकं तथा ज्वरोऽपीति । सिद्धान्तविरुद्धं यथा- - वैद्यो ब्रूतेन च भेषजं रोगहरमिति । तथा यद्यप्यायुर्वेदे चतुष्पादमेव भेषजमिति सिद्धान्त एव, तथापि 'चतुष्पाद'