________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६३४
[ रोगभिषगजितीयं विमानम्
चरक संहिता | अथानर्थकम् | अनर्थकं नाम यद्वचनमक्षरग्राममात्र मेव स्यात् पञ्चवर्गवन्न चार्थतो गृह्यते ॥ ५२ ॥
1
थापार्थकम् । अपार्थकं नाम यदर्थवच्च परस्परे असंयुज्यमानार्थकम् । यथा तकचक्रवंशरक्तनिशाकरा इति ॥५३ अधिकात् पृथक् । शब्दार्थयोः पुनर्व्वचनं पुनरुक्तमन्यत्रानवादात् । इति व्याख्यातञ्चैतत् । अन्यत्रानुवादात् शब्दपुनरुक्तमर्थपुनरुक्तं वा नित्यः शब्दो नित्यः शब्द इति शब्दपुनरुक्तम् । अर्थपुनरुक्तन्तु अनित्यः शब्दो निरुद्धधम्मैको ध्वान इति । अनुवादं वपुनरुक्तं शब्दाभ्यासादथे विशेषोपपत्तेः । यथा देखपदेशात् प्रतिज्ञायाः पुनर्व्वचनं निगमनमिति । अर्थादापन्नस्य स्वशब्देन पुनव्र्वचनम् पुनरुक्तम् । उत्पत्तिधर्मकत्वादनित्यमनुत्पत्तिधम्मेकं नित्यमिति । इहोत्पत्तिधर्मकत्वादनित्य इत्युक्त्यार्थादापद्यतेऽनुत्पत्तिधर्मकं नित्यमिति तस्यार्थादापन्नस्यार्थस्याभिधायको योऽनुत्पत्तिधम्मक नित्यमिति शब्दस्तेन स्वेन शब्देन पुनस्तदर्थस्य वचनमनुत्पत्तिधम्मेकं नित्यमिति तच्च पुनरुक्तम् | अर्थसम्प्रत्ययार्थं शब्दप्रयोगे स ार्थोऽर्थापत्त्या प्रतीत इति ॥ ५१ ॥
गङ्गाधरः - अनर्थकन्तु वाक्यदोषमाह – अथानर्थकमिति । तदनर्थकं नाम वाक्यं यद्वाक्यं पञ्चवर्गवदक्षरग्राममात्रमेव स्यात् । कखगघङा इत्याद्यक्षरग्राममात्रमेव यथानर्थकं नाथेतो गृह्यते तथा भद कद सद लिद निदेत्येवमादिवाक्यमनर्थकं न चार्थतो गृह्यते । इति । गौतमेनाप्युक्तम् । वर्णक्रमनिर्देश
Acharya Shri Kailassagarsuri Gyanmandir
निरर्थकम् । यथा नित्यः शब्दः कचटतपा जड़गवदशत्वात् झभत्र घढप्वदिति । एवंप्रकारं निरर्थकम् । अभिधानाभिधेयानुपपत्तावर्थावगतेरभावाद् वर्णा एव क्रमेण निद्दिश्यन्त इति ॥ ५२ ॥
गङ्गाधरः- अपार्थकञ्च वाक्यदोषमाह - अथापार्थकमिति । अपार्थक नामेत्यादि । तद्वाक्यमपार्थकं नाम यद वाक्यमर्थवच्च परस्परेणासंयुज्यमानार्थकम्, परस्परेणान्वयहीनार्थकपदम् । यथा - तक्रचक्रवंश रक्तनिशाकरा इति । गौतमेनाप्युक्तम् । पौपयोगादमतिसम्बद्धार्थम पार्थकम् । यत्रानेकस्य पदस्य
पञ्चवर्गवदिति क ख ग घ ङादिवर्गसमुदयवत्, अत्र त्वभिधेयोऽर्थो न प्रतिभाति । अर्थवदिति प्रत्येक पदरूपतया प्रसिद्धार्थम् । परस्परेणासं युज्यमानमिति वाक्यरूपतयाऽर्थाप्रत्ययिकम् । चक्र
For Private and Personal Use Only