SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः विमानस्थानम् । १६३३ अथाधिकम् । अधिकं नाम नानविपरीतम्। यद्वायुधे दे भाष्यमाणे वार्हस्पत्यमोशनसमन्यद्वा यत्किञ्चिदप्रतिसम्बद्धार्थमुच्यते । यद्वा प्रतिसम्बद्धार्थमपि द्विरभिधीयते, तत् पुनरुक्तत्वादधिकम्। तच्च पुनरुक्तं द्विविधम् ; अर्थपुनरुक्तं शब्दपुनरुक्तञ्च । तत्रार्थपुनरुक्तं यथा भेषजमौषधं साधननिति। शब्दपुनरुक्तश्च भेषजं भेषजमिति ॥५१॥ चोक्तम् । होनमन्यतमेनाप्यवयवेन न्यूनमिति। प्रतिज्ञादीनामवयवानामन्यतमेन हीनं न्यूनं निग्रहस्थानं साधनाभावे साध्यासिद्धेरिति । अपरञ्चाहयद्वेत्यादि। बहूपदिष्टहेतुकमथं यदेकेन हेतुना साध्यते तदपि न्यनमिति ॥५०॥ गङ्गाधरः-अथाधिकं नाम न्यूनविपरीतमधिकम्, समन्तु प्रकृतमदोषं तता न न्यूनपर्यायेण गृह्यते साम्पमिति । गौतमेन चोक्तम्। हेर्दाहरणाधिकमधिकमिति। एकेन कृतकलादित्यनेन हेतुना सिद्धौ पुननित्यः पुरुषः कृतकलादुत्पत्तिधर्मकखात् इत्यादिषु द्वितीयहे खादरानथेक्यमिति। एवं यद्वक्तव्यं तत्रापतिसम्बद्धार्थवचनं प्रतिसम्बद्धार्थस्य वा द्विरभिधानं तदप्यधिकमिति त्रिविधमधिकम्। तदुदाहरति-यद्वायुर्वेद भाष्यमाणे तदपतिसम्बद्धार्थ वार्हस्पत्यमोशनसं वा शास्त्रोक्तमुच्यते तदधिकम् । यच्चायुर्वदं भाष्यमाणे यत् तत्र प्रतिसम्बद्धार्थ द्विरुच्यते तत् । पुनरुक्तं द्विविधम्। अर्थपुनरुक्तं शब्दपुनरुक्तश्च। तत्राथपुनरुक्तं भेषजमोषधं साधनमिति, शब्दपुनरुक्तश्च भेषजं भेषजमिति। एतच्चानुवादादन्यत्र दोषाख्यं भवति। गोतमेनोक्तमिदम् स्वादिह नोच्यन्ते तथा शास्त्रान्तरोक्ताश्वापसिद्धान्तादयोऽनया भाषया सूच्यन्ते वाक्यदोषाः । यद्वत्यादौ यदा पुरुषस्य नित्यत्वेऽपि हेतव उक्ता अनादित्वादकृतकत्वानिर्विकारत्वादिति च, तेषु यदि सकलहेत्वभिधानं प्रतिज्ञाय एक हेतु ववते, तदा प्रतिज्ञातार्थस्य न्यूनार्थत्वात् न्यूनं भवतीति ज्ञेयम्, यदा हेतुर्वक्तव्यः, तदा एक एव वक्तव्यो युज्यते, एकस्यापि हेतोः साध्यसाधनसम्बन्धात् । तेन, तत्र बहुहेतुकथनमेवाधिकत्वाद्दोष एव भवतीति। प्रकृत इति साध्यत्वेन प्रतिज्ञातः । पार्हस्पत्यमोशनसञ्च नीतिशास्त्रम्। अप्रतिसम्बद्धार्थमित्यनेन, वार्हस्पत्यमपि यदि धनैषणाभिधानप्रसङ्गेन प्रसङ्गागतं भवति, तदा स्तोकक्रमेणोच्यमानमायुर्वदोपकारकत्वेन नाधिकमिति दर्शयति । पुनरुक्तदोषादिति दोषवतः पुनरुक्तादित्यर्थः । दोषयत्वञ्च यथा पुनरुक्तस्य, तथोक्तमेष । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy