________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६३२
चरक-संहिता। रोगभिषगजितीयं विमानम् अथ प्रत्यनुयोगः। प्रत्यनुयोगो नाम अनुयोगस्यानुयोगः। यथा अस्यानुयोगस्य पुनः को हेतुरिति ॥४८॥
अथ वाक्यदोषः। वाक्यदोषो नाम यथा खल्वस्मिन्नर्थे नानमधिकमनर्थकमपार्थकं विरुद्धश्च । नतानि विना प्रकृतोऽर्थः प्रणश्येत् ॥ ४६॥
तत्र न्यूनम् । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानाम् अन्यतमेनापि न्यूनं न्यूनं भवतीति । यद्वा बहूपदिष्टहेतुकमेकेन हेतुना साध्यते तच्च नानम् ॥ ५० ॥
गङ्गाधरः-एवमनुयोक्ता यदि दुष्टं वाक्यं सामान्यार्थवाक्यं वा ब्रूते तदा पूर्वपक्षवादी किं कुर्यादित्यत उद्दिष्टं प्रत्यनुयोगमाह-अथ प्रत्यनुयोग इति। कः प्रत्यनुयोग इत्यत आह–प्रत्यनुयोगो नामेत्यादि। अनुयोगस्य अनुयोगः प्रत्यनुयोग उच्यते। यथास्यानुयोगस्य नित्यः पुरुष इति प्रतिशातेऽनयोगः को हेतुरिति प्रश्नः। तत्र पुनः कों हेतुरिति वचनं प्रति विपरीतप्रश्नः प्रत्यनयोगः। पुरुषनित्यसप्रतिज्ञायां यो भवान् पृच्छति को हेतुस्तत्प्रश्ने किं कारणं भवत इति ॥४८॥
गङ्गाधरः-ननु तत्र के वाक्यदोषा इत्यत उद्दिष्टो वाक्यदोष उच्यते-अथ वाक्यदोष इति। वाक्यदोषो नामेत्यादि। स वाक्यदोषो नाम यथा यद वाक्यमस्मिन्नर्थ न्यूनमस्मिन्नर्थेऽधिकमस्मिन्नर्थेऽनर्थकमस्मिन्नर्थेऽपार्थकमस्मिन्नथ बिरुद्धभित्येतन्न्यूनखादयो दोषाः। कस्मादंते दोषा इत्यत आहनैतानीत्यादि। हि यस्मादेतानि न्यूनखादीनि अन्तरेण वाक्यस्य प्रकृतोऽथों न प्रणश्येदंतैः प्रकृतार्थप्रणाशादते वाक्यस्य दोषा उच्यन्ते ॥४९॥
गङ्गाधरः-तत्र किं न्यूनमित्यत आह–प्रतिशे त्यादि। प्रतिशादीनां . पञ्चानां वाक्यावयवानामन्यतमेनापि न्यूनं वाक्यं न्यूनं भवति। गौतमेन यथोक्तशास्त्रेण पूर्णप्रश्नो गृह्यते, यथा अत्रैव "तत्र चेद् भिषक् भिषजं पृच्छेद्” इत्यादिना यावदुक्तम्, तत् संपूर्ण ज्ञेयम्, अत्रैव चैकदेशोऽपि प्रश्नस्य ज्ञेयः ॥ ४५-४८ ॥
चक्रपाणिः-वाक्यदोषानुदाहरति-वाक्येत्यादि। 'अस्मिन्नर्थ' इति वचनेन च्छल हेत्वाभासादिपदगृहीतानपि वाक्यदोषत्वेन दर्शयति । छलादयो हि वाक्यदोषा एव, परं पृथगगृहीत
For Private and Personal Use Only