________________
Shri Mahavir Jain Aradhana Kendra
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८. अध्यायः ।
विमानस्थानम् ।
.१६३१
तद्वाक्यमनुयोज्यम् । यथा संशोधनसाध्योऽयं व्याधिरित्युक्ते किं वमनसाध्योऽयं किं विरेचनसाध्य इत्यनुयुज्यते ॥ ४५ ॥
अथाननुयोज्यम् | अननुयोज्यं नाम तो विपर्य्ययेण । यथा अयमसाध्यः ॥ ४६ ॥
अथानुयोगः । अनुयोगो नाम स यत् तद्विद्यानां तद्विदैरेव सार्द्धं तन्त्र तन्त्रैकदेशे वा प्रश्नः प्रश्नैकदेशो वा ज्ञानविज्ञानवचनप्रतिवचनपरीचार्थमादिश्यते । अथवा नित्यः पुरुष इति प्रतिज्ञाने, परो यत् को हेतुरित्याह सोऽनुयोगः ॥ ४१ ॥ aarti विशेषार्थग्रहणार्थं तद्वाक्यमनुयोज्यमनुयोगार्थं भवति, तद् यथा-संशो धनसाध्योऽयं व्याधिरिति वाक्यं सामान्येन संशोधनेनोक्तं तदनुयोज्यं भवति । किमयं व्याधिर्वमनसाध्योऽथवा विरेचनसाध्य इति विशेषग्रहणार्थमनुयुज्यते । इति ॥ ४५ ॥
गङ्गाधरः- तर्हि कीदृशवाक्यमननुयोज्यमित्यत उद्दिष्टमननुयोज्यं दर्शयति, अथाननुयोज्यमिति । अननुयोज्यं नामेत्यादि । अतोऽनुयोज्याद्व्याक्याद् विपय्येयेण न्यूनादिदोषाभावेन सविशेषवचनेन युक्तं यह वाक्यं तदननुयोज्यं नाम । अनुयोगार्ह न भवति । यथा वमनसाध्योऽयं व्याधिरिति । वाक्यप्रशंसायाम् अननुयोज्यं दर्शयिष्यते ॥ ४६ ॥
गङ्गाधरः- हि कः पुनरनुयोग इत्यत उद्दिष्टमनुयोगमाह - अथानुयोग इति । अनुयोगः कीदृश इत्यत आह- अनुयोगो नामेत्यादि । तद्विद्यानां तत्तच्छास्त्रं विद्वांसो ये तेषां विदुषां तद्विदैरेव सार्द्धं तस्मिंस्तन्त्रे कृत्स्ने प्रश्नः । अथवा तत्तन्त्रैकदेशे कुत्रचित् स्थाने प्रश्नैकदेशो ज्ञानार्थं विधानार्थं वचनप्रतिवचनार्थं परीक्षार्थं वा यः पूर्व्वमादिश्यते स प्रश्नादेशः प्रश्नैकदेशस्यादेशो ऽनुयोगः । तत्रोत्तरं यद्वाक्यं न्यूनादिदोषयुक्तं सामान्योक्तं वा तत्र च यः प्रश्नः प्रश्नैकदेशो वादिश्यते सोऽप्यनुयोग इति । अथवा परेणोक्ते यत्परेण तत्र हेतुः पृच्छाते सोऽप्यनुयोगः । यथा नित्यः पुरुष इत्युक्ते परः पृच्छति को हेतुरिति ।। ४७ ।।
यथोक्तानुयोज्य प्रकरणस्योदाहरणविपर्ययेण ज्ञेयम् । अनुयोगमाह - प्रश्न इति, 'प्रश्न: 'इतिशब्देन
For Private and Personal Use Only