________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६३०
चरक-संहिता। (रोगभिषगजितीयं विमानम् । अथ सम्भवः। सम्भवो नाम यो यतः सम्भवति, स तस्य सम्भवः। यथा षड् धातवो हि गर्भस्य, व्याधेहितम्, हितमारोग्यस्य ॥४४॥
अथानुयोज्यम् । अनुयोज्यं नाम यद् वाक्यं वाक्यदोषयुक्त तदनुयोज्यमित्युच्यते। सामान्यव्याहृतेष्वर्थेषु वा विशेषग्रहणार्थ
गङ्गाधरः-ननु तर्हि प्रत्यक्षानुमानै तिह्यौपम्यार्थप्राप्तिभिरेव किं निश्चयः स्यादित्याकाङ्क्षायामुद्दिष्टं सम्भव इति। न खलु प्रत्यक्षादिभिरेव केवलैः निश्चयः स्यात् सम्भवेनापि निश्चयो भवतीत्यत आह-अथ सम्भव इति । कः पुनः सम्भव इत्यत आह-सम्भवो नामेत्यादि। यो यतः सम्भवति स तस्य' सम्भव उत्पत्तवादिषु सम्भावनाहेतुरिति। अविनाभाववृत्तवा संबद्धयोः समुदायसमुदायिनोः समुदायेनेतरस्य ग्रहणं सम्भवस्तदप्यनुमानमेव। यथा द्रोणस्य सम्भावना प्रस्थादिमन्तरेण न स्यादिति प्रस्थादिमानं द्रोणस्य सम्भवः। एवमेवाभिप्रेत्य स्वयमुदाहरति। यथा षड्. धातवो गर्भस्य, व्याधेरहितं हितमारोग्यस्येति । पड़ धातुः पुरुषः इह न केवलो गर्भस्य सम्भावनाहेतुः अदुष्टशुक्रशोणितगर्भाशयपुष्पकालाश्च हेतव इत्यतः षड़, धातव इति बहुवचनान्तमुक्तम्। इदं गर्भस्योत्पत्तिसम्भावनाहेतुसम्भवोदाहरणम् । अहिताचरणं व्याधिसम्भावनाहेतुहितसेवनमारोग्यसम्भावनाहेतुः तिस्रषणीयेऽस्य प्रामाण्यं व्याख्यातं विस्तरेण ॥४४॥
गङ्गाधरः-इत्येवं प्रत्यक्षादिभिः प्रमाणैः कृते निश्चये वादे यद्वाक्यं दुष्टं तदाह । अनुयोज्यमित्युद्दिष्टं यत् तदाह-अथानुयोज्यमिति। वादे यद्वाक्यमनुयोज्यं तज्ज्ञ यमित्यत आह–अनुयोज्यं नामेत्यादि। यद्वाक्यं वाक्यदोषयुक्तं तद्वाक्यमनुयोज्यमनुयोक्तुमर्हति शक्यते च वादिना। अनुयोगो हि दृषणवचनम्। वाक्यदोषा इहैव वक्ष्यन्ते न्यूनादयः। उदाहरिष्यन्ते च। द्वितीयमनुयोज्यमाह-सामान्येत्यादि। सामान्येनोक्तेषु खल्वर्थेषु
चक्रपाणिः-सम्भवति विद्यते अस्मिन्निति सम्भवः, कारणं हि अव्यक्तस्वजन्मकार्यमुक्तम् । यथा- सम्भवति खाय- द्रोण इत्यादि, तत्समानमेतदप्युदाहरणं भवति ॥ ४४ ॥
चक्रपाणिः-अनुयोज्यान्तरमाह-सामान्येनेत्यादि। अननुयोज्यमाह अतो विपश्येयेणेति ।
For Private and Personal Use Only