________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८मअध्यायः
विमानस्थानम्।
१६२६ अथ व्यवसायः। व्यवसायो नाम निश्चयः। यथा वातिक एवायं व्याधिरिदमेवात्र भेषजञ्च ॥ ४२ ॥
अथार्थप्राप्तिः । अर्थप्राप्ति म यत्रैकेनार्थेनोक्तनापरस्य चार्थस्यानुक्तस्य सिद्धिः। यथा नायं सन्तर्पणसाध्यो व्याधिरित्युक्ते भवत्यर्थप्राप्तिरपतर्पणसाध्योऽयमिति। नानेन दिवा भोक्तव्यम् इत्युक्ते भवत्यर्थप्राप्तिर्निशि भोक्तव्यमिति ॥४३॥
गङ्गाधरः-परीक्षानन्तरं व्यवसायः कार्य इत्यत उद्दिष्टं व्यवसाय इति । स उच्यते-अथ व्यवसाय इति। गुणतो दोषतो ज्ञातुमिच्छताऽनन्तरं व्यवसायः कर्त्तव्यः। कः पुनर्व्यवसाय इत्यत आह-व्यवसायो नाम निश्चय इति। गुणतो दोषतोऽथों निश्चीयते येन शानेन तनिश्चयो ज्ञानम्, तेन हि ज्ञानेन बोधपूर्वकं कत्तू वक्तु वा पुमान् व्यवस्यतीति सा व्यवसायात्मिका बुद्धिः । यथा-वानिक एवायं व्याधिरिति निश्चयः, इह तु व्याधाविदमेव भेषजमिति निश्चयो व्यवसायः॥४२॥ ___ गङ्गाधरः-अथैष निश्चयः प्रत्यक्षानुमानै तिह्यौपम्यैरेव किं स्यादित्यत उक्तम् -अर्थप्राप्तिरिति। न खलु प्रत्यक्षानुमानै तिह्यौपम्यमात्रेण निश्चयः स्यादर्थप्राप्तितश्च स्यात् तस्मादाह-अथार्थप्राप्तिरिति। अथानन्तरमर्थप्राप्तिः । सा च कीदृशीत्यत आह–अर्थप्राप्तिर्नामेत्यादि। यत्र वाक्ये खल्वेकेनार्थेन उक्तनापरस्यानुक्तस्य श्रुतिभिरनभिहितस्यार्थस्य सिद्धिर्भवति यया साऽर्थप्राप्ति म । तदुदाहरति—यथेत्यादि। तिस्रषणीये विस्तरेण व्याख्यातेयमर्थप्राप्तिरर्थापत्तिरित्युच्यतेऽन्यै रिति ॥४३॥
प्रकरणे। किंवा रसायने “भेषजं द्विविधम्" इत्यादिना। अर्थप्राप्तिरित्यर्थापत्तिरित्यर्थः । इह 'उक्तन' इति वचनात् श्रुतार्थापत्तिरेव विवक्षिता, दृष्टार्थापत्तिरपि तु एतत्सामान्यत्वेनैव ज्ञेया। इयञ्चार्थापत्तिरन्यथोपपत्त्या न प्रमाणमिति न प्रमाणप्रकरणे पठिता, या तु दोषरहिता साऽनुमानान्तर्गतैवेति भावः। यो ह्यपतर्पणसाध्योऽपि न स्यात्, तं प्रति 'नायं सन्तर्पणसाध्यः' इति वचनमेवासमर्थविशेषणतया न स्यादित्यर्थापत्तिर्नेत्यभिप्रायः, उभयासाध्यो हि 'असाध्यः' इत्येतावदेव वक्तव्यं स्यात्। एवमन्यत्राप्युदाहरणे ज्ञेयम् ॥ ३९-४३ ॥
For Private and Personal Use Only