________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२८
चरक-संहिता। रोगभिषगजितीयं विमानम् चरणम्। यथा भवेदिदमौषधं तस्मिन् व्याधौ यौगिकमथवा नेति ॥ ४०॥ ___ अथ जिज्ञासा। जिज्ञासा नाम परीक्षा । यथा भेषजपरीक्षोत्तरकालमुपदेच्यते ॥४१॥ नामेत्यादि। यळ्यभिचरणमनेकान्तवचनं कचित् तथा कचिदन्यथेति तत् सव्यभिचारं व्यभिचारेण सहितं वत्तमानम्। गौतमेनोक्तश्च। अनैकान्तिकः सव्यभिचारः। व्याख्यातञ्चैतत् व्यभिचार एकत्राव्यवस्था, सह व्यभिचारेण वर्त्तते इति सव्यभिचारः। नित्यः शब्दोऽस्पर्शवात्, स्पर्शवान कुम्भोऽनित्यो दृष्टः । न च तथा स्पर्शवान् शब्दस्तस्मादस्पर्शवानित्यः शब्द इति दृष्टान्ते स्पर्शवत्त्वमनित्यवश्च धम्मो न साध्यसाधनभूती दृश्येते स्पर्शवांश्वाणुनित्यश्चेति। सव्यभिचारस्वस्पर्शवनित्यखे। आत्मादौ च दृष्टान्ते उदाहरणसाधात् साध्यसाधनं हेतुरिति । अस्पर्शवादिति हेतुर्व्यभिचरति । अस्पर्शा बुद्धिरनित्या चेति। एवं द्विविधेऽपि दृष्टान्ते व्यभिचारात् साध्यसाधनभावो नास्तीति ते तु लक्षणलक्ष्यवाभावादहेतुरिति। नित्यत्वमप्येकोऽन्त इत्येकान्तः । अनित्यत्वमप्यनेकोऽन्तः। एकस्मिन्नन्ते विद्यते इत्यैकान्तिकः। विपर्ययादनकान्तिकः उभयान्तव्यापकलादिति। हेतोर्दोषतया गौतमेन हेखाभासेपूक्तः । इह तन्त्रे हेतुदोषवेऽपि हेतुमात्रदोषवाभावात् हेतुदोषववदन्यस्यापि दोष इत्यभिप्रायेण पृथगुक्त इति ख्यापनायोदाहरणं दर्शयति। यथेत्यादि । तस्मिन् व्याधौ ज्वरादौ खल्विदमौषधं भवेदथ न वा भवेदिति त्वेकान्तवाभावादनेकान्त मिति ॥४०॥
गङ्गाधरः-सव्यभिचारमानमुक्त्वा वाद कर्तव्ये जिज्ञासा कर्त्तव्येति पूर्वमुद्दिष्टं जिज्ञासेति, तामाह-अथ जिशासेति। अनन्तरं जिज्ञासा वादे कर्त्तव्या का पुनः सा जिज्ञासा इत्यत आह-जिज्ञासा नामेत्यादि । परीक्षा तु जिशासाभिधीयते। न हि प्रश्नमात्रे जिज्ञासा भवति प्रश्ने कृतेऽकृते वा प्रमाणैस्तदुत्तरं सदसद्रूपेण ज्ञातुमिच्छा परीक्षेव जिशासाशब्दस्यार्थः। यथा भेषजपरीक्षोत्तरकालमुपदेक्ष्यते इति ॥४१॥ इत्यर्थः। अथवा नेति न भवति। अनैकान्तिकञ्चानौषधं यौगिकत्वायौगिकरवाभ्यां संशय. जनकमेव। तेन, संशयेन सममेकता न शङ्कनीयाऽनैकान्तिकस्य। उत्तरकालमिति इहैव परीक्षा
For Private and Personal Use Only