________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम्।
१६२७ अनुपेताश्च तथाक्रियाः सक्रियाश्च पुरुषार शीघ्रभङ्गाश्चिरजीविनश्च। तदुभयदृष्टत्वात् संशयः किमस्ति खल्वकालमृत्युरुतः नास्तीति ॥ ३८॥ ____ अथ प्रयोजनम् । प्रयोजनं नाम यदर्थमारभ्यन्ते आरम्भाः । तद् यथा यद्यकालमुत्युरस्ति ततोऽइमात्मानमायुष्यरुपचरिष्यामि, अनायुष्याणि च परिहरिष्यामि, कथं मामः अकालमृत्युः प्रसहेतेति प्रयोजनम् ॥ ३९ ॥
अथ सव्यभिचारम्। सव्यभिचारं नाम यद् व्यभि
दृष्टाश्चेत्यादि। तदुभयदृष्टवाद विप्रतिपत्तितोऽयं संशयः किमस्तीत्यादि ॥३८॥
गङ्गाधरः-अथ संशये सति वादे प्रवर्त्तते न चासंशयवानित्यतः पुनर्जयाद्यर्थ चासंशयवानपि वादे प्रवर्त्तते ततः प्रयोजनमित्युक्तं यत् तदाह--अथ प्रयोजनम्। वादे प्रवृत्तौ संशयवदपरमपि प्रयोजनमस्तीति तत् किमित्यत आह-प्रयोजनं नामेत्यादि। यदर्थ यत्फलायारम्भाः क्रिया आरभ्यन्ते तत् फलं प्रयोजनं नामोच्यते, तदुदाहरति-यद्यकालमृत्युरित्यादि । गौतमेनाप्युक्तम् । यमर्थमधिकृत्य प्रवर्तते तत् प्रयोननमिति । व्याख्यातञ्च वात्स्यायनेन। यमर्थमाप्तव्यं हातव्यं वाध्यवसाय तदाप्तिहानोपायमनुतिष्ठति तत् प्रयोजनं वेदितव्यम्, प्रवृत्तिहेतुखात्। इममर्थमाप्स्यामि हास्यामि वेति व्यवसायोऽर्थस्याधिकारः । एवं व्यवसीयमानोऽथोऽधिक्रियते इति ॥३९॥
गङ्गाधरः-अथ वादे प्रवर्त्तमाने यद् वाक्यं तस्य दोषविशेषात् सव्यभिचारं शेयं भवतीत्युद्दिष्टं सव्यभिचारमिति यत् तदाह-अथ सव्यभिचारमितिः। अनन्तरं सव्यभिचारं यत् किं नु खलु तदुच्यते इत्यत आह-सव्यभिचारं
अक्रियाणां शीघ्रभङ्गे तथा सक्रियाणाञ्च चिरजीवने दृष्टे अकालमृत्युरस्तीति बुद्धिः, एतद्विपर्यये चाकाले मृत्यु स्तीति बुद्धिः ॥३८॥
चक्रपाणिः- यदर्थमिति यक्षिमित्तम् । प्रसहेतेति मास्मेदित्यर्थः। सम्पभिचारम्मत्यनैकान्तिकम्..
For Private and Personal Use Only