SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक संहिता। (रोगभिषगजिनीयं विमानम् किमकालमृत्युरस्ति नास्तीति। दृष्टाश्चायुष्मल्लक्षणेरुपेताश्च तत् कारणं, कार्यमितरत् इत्येतत् सारूप्यम् । अस्ति च संशयकारणे संशये चैतत् इति। एतेनानेकधाध्यवसायादिति प्रतिषेधः परिहत इति। यत् पुनरेतत् उक्तं विप्रतिपत्त्यव्यवस्थाध्यवसायाच न संशय इति। पृथक्सवादयोाहतम् अर्थमुपलभे विशेषश्च नोपलभे येनान्यतरमवधारयेयमिति। तत् कोत्र विशेषः स्याद् येनैकतरमवधारयेयमिति। संशयो विप्रतिपत्तिजनितोऽयं न शक्यो विप्रतिपत्तिसम्पतिपत्तिमात्रेण निवर्तयितुमिति। एवमुपलब्ध्यनुपलब्ध्यव्यवस्थाकृते वेदितव्यमिति । यत् पुनरेतत् विप्रतिपत्ताविति। विप्रतिपत्तिशब्दस्य योऽर्थस्तदध्यवसायो विशेषापेक्षःसंशयहेतुस्तस्य च समाख्यान्तरेण न निवृत्तिः। समानेऽधिकरणे व्याहताथी प्रवादी विप्रतिपत्तिशब्दस्यार्थः । तदध्यवसायश्च विशेषापेक्षः संशयहेतुर्न चास्य सम्प्रतिपत्तिशब्दे समाख्यान्तरे योज्यमाने संशयहेतुखं निवर्त्तते। तदिदमकृतबुद्धिसम्मोहनमिति। यत् पुनरव्यवस्थात्मनि व्यवस्थितखाचाव्यवस्थाया इति। संशयहेतोरर्थस्य अप्रतिषेधादव्यवस्थाभ्यनुज्ञानाच निमित्तान्तरेण शब्दान्तरकल्पना व्यर्था । अव्यवस्था खल व्यवस्था न भवति। अव्यवस्थात्मनि व्यवस्थितखादिति न। अनयोरुपलब्ध्यनुपलब्ध्योः सदसद्विषयवं विशेषापेक्षं संशयहेतुने भवतीति प्रतिषिध्यते। यावता चाव्यवस्थात्मनि व्यवस्थिता न तावदात्मानं जहाति। तावता ह्यनुज्ञाता भवत्यव्यवस्था। एवमियं क्रियमाणापि शब्दान्तरकल्पना नार्थान्तरं साधयतीति । यत् पुनरेतत् । तथात्यन्तसंशयस्तद्धम्मसातत्योपपत्तेरिति। नायं समानधर्मादिभ्य एव संशयः । किं तर्हि ? तत्तद्विषयाध्यवसायाद विशेषस्मृतिसंहितादित्यतो नात्यन्तसंशय इति। अन्यतरधर्माध्यवसायाद्वा न संशय इति, यदुक्तं विशेषापेक्षो विमशेः संशय इति वचनात्। विशेषश्चान्यतरधर्माः, न च तस्मिन्नध्यवसीयमाने विशेषापेक्षा सम्भवतीति । यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः। यत्र यत्र संशयपूर्विका परीक्षा शास्त्रे कथायां वा, तत्र तत्रैवं संशये परेण प्रतिषिद्ध समाधिर्वाच्यः इति। इति सव्र्वपरीक्षाव्यापिखात् संशयः परीक्षित इति। स्वयमुदाहरतियथेत्यादि। अकालमृत्युरस्ति किं नास्तीति संशयः। कथमित्यत आह स्थाणुर्वा पुरुषो वा” इति। दृष्टा होत्यादिना संशयोत्पत्तिसामग्रीमाह, तत्रायुष्यलक्षणोपेतानाम् For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy