________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः ] विमानस्थानम्।
१६२५ विप्रतिपत्तेः संशयः, सम्प्रतिपत्तेरेव संशय इति। अव्यवस्थात्मनि व्यवस्थितखाच्चाव्यवस्थायाः न संशयः। यदि तावदियमव्यवस्थात्मन्येव व्यवस्थिता, व्यवस्थानादव्यवस्था न भवतीत्यनुपपन्नः संशय इति। अथ अव्यवस्थात्मनि न व्यवस्थिता । एवमतादात्म्यादव्यवस्था न भवतीति संशयाभाव इति। तथात्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः। येन कल्पेन भवान् समानधम्मोपपत्तेः संशय इति मन्यते, तेन खल्वत्यन्तसंशयः प्रसज्यते । समानधोपपत्तेरनुच्छेदात् संशयानुच्छेदः। नायमतद्ध िधी विमृश्यमानो गृह्यते। सततन्तु तद्धा भवतीति ।। अस्य प्रतिषेधप्रपञ्चस्य सङ्ख पेणोद्धारः । यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो नात्यन्तसंशयो वा। संशयानुपपत्तिः संशयानुच्छेदश्च न प्रसज्यते। कथम् ? यत् तावत् समानधम्माध्यवसायः संशयहतुने समानधम्ममात्रमिति। एवमेतत् । कस्मादेवं नोच्यते इति ? विशेषापेक्ष इति वचनात् सिद्धः। विशेषस्यापेक्षाकाङ्क्षा, सा चानुपलभ्यमाने विशेषे समर्था। न चोक्तं समानधर्मापेक्ष इति । समाने च धर्मे कथमाकाङ्क्षा न भवेत् । यद्ययं प्रत्यक्षः स्यात्। एतेन सामर्थ्यन ज्ञायते समानधर्माध्यवसायादिति। उपपत्तिवचनाद वा समानधम्मोपपत्तेः इत्युच्यते । न चान्या सद्भावसंवेदनादृते समानधम्मोपपत्तिरस्ति । अनुपलभ्यमानसद्भावो हि विशेषो धम्मोऽविद्यमानवद् भवतीति। विषयशब्देन वा विषयिणः प्रत्ययस्याभिधानम्। यथा लोके धूमेनाग्निरनुमीयते इत्युक्ते धूमदर्शनेनाग्निरनुमीयते इति ज्ञायते। कथम् ? दृष्ट्वा हि धूममग्निमनुमिनोति नादृष्ट्वा । न च वाक्ये दर्शनशब्दः श्रूयते। अनुजानाति च वाक्यार्थप्रत्यायकसम्। तेन मन्यामहे विषयशब्देन विषयिणः प्रत्ययाभिधानं बोद्धानुजानाति। एवमिहापि समानधर्मशब्देन समानधर्माध्यवसायम् आहेति। यदुक्तम् समानमनयोधर्ममुपलभत इति धर्माधम्मेिग्रहणे संशयाभाव इति। पूर्वदृष्टविषयमेतत् । यावहमी पूर्वमद्राक्षं तयोः समानं धर्ममुपलभे, विशेष नोपलभे इति। कथन्तु विशेषं पश्येयं येनान्यतरमवधारयेयमिति। न चैतत् समानधम्मोपलब्धौ धर्माधर्मिग्रहणमात्रेण निवर्तत इति। यच्चोक्तं नार्थान्तराध्यवसायादन्यत्र संशय इति। यो ह्यान्तराध्यवसायमानं संशयहेतुमुपाददीत स एवं वाच्य इति। यत् पुनरेतत् काय्यकारणयोः सारूप्याभावादिति। कारणस्य भावाभावयोः कार्यस्य भावाभावी काय्येकारणयोः सारूप्यम् । यस्योत्पादाद यदुत्पद्यते यस्य चानुत्पादाद् यत्नोत्पद्यते
२०४
For Private and Personal Use Only