________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२४
चरक-संहिता। (रोगभिषगजितीयं विमानम् धारणं संशयः। इति। उपलब्ध्यव्यवस्थातः खल्वपि सच्चोदकमुपलभ्यते तड़ागादिपु मरीचिषु वा अविद्यमानमुदकमिति । ततः कचिदुपलभ्यमाने तत्त्वव्यवस्थापकस्य प्रमाणस्यानुपलब्धेः किं सदुपलभ्यते उत असदिति संशयो भवति। अनुपलब्ध्यव्यवस्थातः सच्च नोपलभ्यते मूलकीलकोदकादि । असच्चानुपपन्नं विरुद्धं वा। ततः कचिदनुपलभ्यमाने तत्त्वव्यवस्थापकस्य प्रमाणस्यानुपलब्धेः किं सन्नोपलभ्यते उतासदिति संशयो भवति। विशेषापेक्षा अत्र पूर्ववत् । पूर्वः समानोऽनेकश्च धम्मो ज्ञ यस्थः। उपलब्ध्यनुपलब्धी पुनर्शातस्थे। एतावता विशेषेण पुनर्वचनम्। समानधर्माधिगमात् समानधम्मोपपत्तेविशेषस्मृत्यपेक्षो विमश इति। लक्षणमिदं परीक्षितं स्वयमेव । तद् यथा-समानानेकथाध्यवसायादन्यतरधर्माध्यवसायाद वा न संशयः । विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च। विप्रतिपत्तौ च सम्प्रतिपत्तेः। अव्यवस्थात्मनि व्यवस्थितखाच्चाव्यवस्थायाः। तथात्यन्तसंशयस्तधर्मसातत्योपपत्तेः। यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशयेनासंशयो नात्यन्तसंशयो वा। यत्र संशयस्तत्रैवोत्तरोत्तरप्रसङ्ग इति । व्याख्यातञ्चैतत् सर्वं वात्स्यायनेन। तद् यथा-समानानेकपाध्यवसायादन्यतरधर्माध्यवसायाद वा न संशय इति। समानस्य धर्मस्याध्यवसायात् संशयः स्यात् न धर्ममात्रात् । अथवा समानमनयोर्यदधर्ममुपलभते इति धम्मेधर्मिग्रहणे संशयाभावः। इति । अथवा समानधर्माध्यवसायादर्थान्तरभूते धर्मिणि संशयोऽनुपपन्न इति । न जातु रूपस्यार्थान्तरभूतस्याध्यवसायादर्थान्तरभूते स्पर्श संशय इति। अथवा नाध्यवसायादवधारणादनवधारणज्ञानं संशय उपपद्यते, कार्यकारणयोः सारूप्याभावादिति। एतेनानेकधम्मोध्यवसायादिति व्याख्यातम् । अन्यतरधर्माध्यवसायाच्च संशयो न भवति। ततो ह्यन्यतरावधारणमेवेति। विप्रतिपत्त्यव्यवस्थाध्यवसायाच न संशयः। विप्रतिपत्तिमात्रादव्यवस्थामावाद वा न संशयो भवति। किं तर्हि, विप्रतिपत्तिमुपलभमानस्य संशयः। एवमव्यवस्थायामपीति। अथवाऽस्त्यात्मेत्येके नास्त्यात्मेत्यपरे मन्यन्त इत्युपलब्धेः कथं संशयः स्यादिति। तथोपलब्धिः अव्यवस्थिताऽनुपलब्धिचाव्यवस्थितेति विभागेनाध्यवसिते संशयोऽतो. नोपपद्यत इति । विप्रतिपत्तौ च सम्प्रतिपत्तेः। याञ्च विप्रतिपत्तिं भवान् संशयहेतु मन्यते, सा सम्प्रतिपत्तिः। सा हि द्वयोः प्रत्यनीकधर्मविषया, तत्र यदि लक्षणम्- 'अनिश्चयः' इति ज्ञेयम् । अनिश्चयः पाक्षिकविरुद्धधर्मावमर्षकरं ज्ञानम्, यथा
For Private and Personal Use Only