SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir • ८म अध्यायः विमानस्थानम् । १६२३ अथ संशयः। संशयो नाम सन्दिग्धेष्वर्थेष्वनिश्चयः। यथा नोत्तरेण सः। इति। किंरूपाद विशिष्ट कार्य तत्राह-कारणसदृशं कार्यमिति। इति व्याख्यातमौपम्यमिति ॥३७॥ गङ्गाधरः-एवं वादे प्रवत्तिते यः संशेते इति संशय उद्दिष्टस्तमाहअथ संशय इति। कः पुनः संशयो नामोच्यत इत्यत आह-संशयो नामेत्यादि। सन्दिग्धेषु समानानेकधम्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्थ्यव्यवस्थातश्च विमृष्टेष्वर्थेषु अनिश्चयो विशेषापेक्षो विमर्शः संशयो नामाभिधीयते । उक्तञ्चैतद गौतमेन । समानेकधम्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशय इति । व्याख्यातञ्चैतद वात्स्यायनेन । समानधम्मोपपत्तेर्विशेषापेक्षो विमर्शः संशय इति स्थाणुपुरुषयोः समानं धर्ममारोहपरिणाही पश्यन् पूर्वदृष्टञ्च तयोविशेष बुभुत्समानः किंस्विदित्यन्यतरन्नावधारयति । तदनवधारणं ज्ञानं संशयः। समानमनयोधम्मम् उपलभे, विशेषमन्यतरस्य नोपलभे; इत्येषा बुद्धिरपेक्ष्या संशयस्य प्रवर्तिका वर्तते। तेन विशेपापेक्षो विमर्शः संशयः। अनेकथोपपत्तेरिति समानजातीयमसमानजातीयश्चानेकम्, तस्यानेकस्य धर्मास्योपपत्तेविशेषस्योभयथा दृष्टवात् । समानजातीयेभ्योऽसमानजातीयेभ्यश्चार्था विशिष्यन्ते । गन्धवत्त्वात् पृथिवी अबादिभ्यो विशिष्यते, गुणकर्मभ्यश्च । अस्ति च शब्द विभागजे खल संयोगजे खविशेषस्तस्मिन् द्रव्यं गुणः कम्मे वेति सन्देहः। न हि शब्दो वैशेषिके नवसु द्रव्येषु विभक्तः कृतो न रूपादिषु सप्तदशसु गुणेषु न पञ्चसु उत्क्षेपणादिषु कर्मसु। विशेषस्य चोभयथा दृष्टवात् । किं द्रव्यस्य सतो गुणकर्मभ्यो विशेषः ? आहोस्विद् गुणस्य सत इति, अथ कम्र्मणः सतः ? इति विशेषापेक्षान्यतमस्य व्यवस्थापकं धर्म नोपलभे इति बुद्धिरपेक्ष्या संशयस्य। विप्रतिपत्तेरिति। व्याहतमेकार्थदर्शनं विप्रतिपत्तिः। व्याघातो विरोधोऽसहभाव इति। अस्त्यात्मेत्येकं दर्शनम् नास्त्यात्मेत्यपरं, न च सद्भावाभावौ सहैकत्र सम्भवतः। न चान्यतरसाधको हेतुरुपलभ्यते। तत्र तत्त्वानव चक्रपाणिः- सन्देहलक्षणानुसन्दिग्धेप्वर्थेवित्यनेन सन्देहयोग्यं विषयं दर्शयति, अनेन च, न्यायोक्तात् “समानानेकधर्मोपपत्तेः" इति वचनात् विषयं संशयस्य च दर्शयति। संशय * सन्देहलक्षणानुसन्दिग्धेष्विति चक्रतः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy