________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता ।
१६२२
( रोगभिषग्जितीयं विमानम्
I
रणातिशायिनी । यथा - रामरावणयोर्युद्धं रामरावणयोरिवेति ।। अथान्योपमा । उपमेयं यदन्यस्य तदन्यस्योपमा मता । यथा - दिवाकरेण संफुल्लमिव पद्म' मुखं तव । इति || अथ गमनोपमा । यदुत्तरोत्तरं याति तदासौ गमनोपमा । यथा-नखानि विशङ्कया विरहिणी करेणावृणोत् ततः किशलयभ्रमात् करमतोऽक्षिपद् दूरतः । ततो वलयशिञ्जितं भ्रमरगुञ्जितं शङ्कया उहूरिति कुहूकुहूध्वनिभियापतन्मूर्च्छिता । इति । ० । इत्यष्टादशधा स्फुटो
पमा व्याख्याताः ।
-
Acharya Shri Kailassagarsuri Gyanmandir
अथ स्फुटास्फुटपञ्चविधोपमामाह- प्रशंसा चंव निन्दा च कल्पिता सदृशी तथा । किञ्चिच्च सदृशी ज्ञेया उपमा पञ्चधा पुनः । अन्यस्य प्रशंसया यदुपमीयते सा शंसोपमा । मृणालाङ्क रमत्तु यन्न त्यजन्ति सरो मृगाः । तत्राब्जकुसुमायार्थी गत्वा न स्यात् प्रवञ्चितः । एवमन्यस्य निन्दया यदुपमीयते सा निन्दोपमा । पद्म' बहुरजचन्द्र-क्षयवृद्धी दिने दिने । ताभ्यां समं तव मुखं न तत् तत्त्वविदो विदुरिति । । कविना या तूपमा कल्प्यते सा कल्पितोपमा । मुखाब्जं दन्तकिञ्जल्कमोष्टच्छदमलीक्षणम् । सौरभेणाकर्षति ते यूनां चित्तमलिं द्रुतमिति || उपमानस्य सव्वैधम्र्मेण यदुपमेये सादृश्यं सा सदृश्युपमा । यथापद्मात्मके तवाम्भोज - समं स्तनयुगं मुखम् । करद्वयं पादयुगं नेत्रयुग्मं मनोहरम् | इति । एषा पूर्णोपमा परैरुच्यते । या तूपमा पुनरुपमानगतानां धर्माणां किञ्चिधर्मेण सादृश्यं स्यात् सा किञ्चित्सदृशी उपमा परैस्त्वेषा लुप्तोपमाभिधीयते । कान्त्या चन्द्रमसंधाना सूर्य धैर्येण वारिधिम् । राजन्ननुकरोषि त्वं जवेन मनसा ध्रुवमिति । किञ्चिदंशेन सादृश्यात् किञ्चित्सदृशीति । एषा त्रयोविंशतिधाग्निनोपमा प्रोक्ता । तेनान्योपमा नास्ति । यत्र कचिदन्या चोक्ता साना वादग्राह्या । आभ्य उपमाभ्यो भिन्नं सादृश्यं रूपकादित्रयं नौपम्यमिति । तदुक्तञ्च । उपमानेन यत् तत्त्वमुपमेयस्य रूप्यते । गुणानां समतां दृष्ट्वा रूपकं नाम तद् विदुः । यथा - ताम्राङ्गुलिदलश्रेणि नखदीधीतिकेशरम् । धियते मूर्द्धि भूपाले भवच्चरणपङ्कजमिति । उपमेव तिरोभूतभेदा रूपकमेव वा । उपमानोपमेययोर्जातिमात्रभेदे गुणक्रियाभ्यामभेद इति तिरोभूतभेदा तूपमैव रूपकमिति तुल्यं लक्षणद्वयम् । सहोक्तिस्तु सादृश्यम् । सहोक्तिः सहभावेन कथनं तुल्यधर्म्मिणामिति । यथा - उभौ मध्वासवक्षीरावुभौ चन्दनरूषिताविति, कृष्णाज्जु नयोः समधर्म्मिणोः सहभावेन कथनं सहोक्तिः । अथ अर्थान्तरन्यासः सादृश्यम् । भवेदर्थान्तरन्यासः सादृश्ये -
।
For Private and Personal Use Only